कविः –5

शूद्रकः
कविः शूद्रकः मृच्छकचिकम् इति प्रसिद्धनाटकस्य रचयिता। अस्य कवेः जन्मादि विषये सप्रमाणयुक्तयः न लब्धाः। मृच्छकटिकनाटकस्य प्रस्तावनाऽधारेण –शिवप्रसादेन अस्मै दृष्टिर्लब्धा, तथा च अयम् अश्वमेधयज्ञं चकार, दशादिकैशतवर्षम् उषित्वा स्वपुत्राय राज्यं दत्वा स्वर्गलोकं जगाम।
ऋग्वेदं सामवेदं गणितमथ कलां वैशिकीं हस्तिशिक्षां
ज्ञात्वा शर्वप्रसादाद्व्यपगततिमिरे चक्षुषी चोपलभ्य ।
राजानं वीक्ष्य पुत्रं परमसमुदयेनाश्वमेधेन चेष्ट्वा
लब्ध्वा चायुः शताब्दं दशदिनसहितं शूद्रकोऽग्निं प्रविष्टः ।।
अस्यैव नाटकस्य प्रस्तावनायाः तृतीयश्लोके अयं ‘द्विजमुख्यतमः कविर्बभूव प्रथितः शूद्रक इत्यगाधसत्तवः इति दत्तमस्ति। पुनः पञ्चमश्लोके ‘क्षितिपालः किल शूद्रको बभूव’ इति पठ्यते। अतः शूद्रको नाम कश्चित् राजा सः एव कविरपि आसीत् इत्येव अस्माभिः कथ्यते किन्तु तस्य जन्मादि विषये न किमपि निर्णीयते।

Poet -5
ShUdraka

It has been the fate of almost all Sanskrit authors to remain completely hidden as far as their personal history is concerned. Among them sUdraka, the author of the drama mrchchakatikam, had the worse fate than most of the Sanskrit dramatists. At least we know that the drama sAkuntalam was written by an author, whose real or assumed name was kAlidAsa. But with respect to the drama mrchchakatikam – the authorship of the drama is still undecided.

The particulars given about his personal history in the prelude of the drama, that he recovered his eye sight through the blessings of lord siva, he performed the Ashvamedha sacrifice, he attained the age of a hundred years and ten days, and that having set his son on the throne he ascended the funeral pyre.

ऋग्वेदं सामवेदं गणितमथ कलां वैशिकीं हस्तिशिक्षां
ज्ञात्वा शर्वप्रसादाद्व्यपगततिमिरे चक्षुषी चोपलभ्य ।
राजानं वीक्ष्य पुत्रं परमसमुदयेनाश्वमेधेन चेष्ट्वा
लब्ध्वा चायुः शताब्दं दशदिनसहितं शूद्रकोऽग्निं प्रविष्टः ।।


The third and fifth verse of the prelude proove that sUdraka was a king and he was the best among the kshatriyas. द्विजमुख्यतमः कविर्बभूव प्रथितः शूद्रक इत्यगाधसत्वः । क्षितिपालः किल शूद्रको बभूव।
Therefore, the conclusion that we can draw from these verses is that sUdraka was a king and was also a poet.
This work ‘mrchchakatikam’ is highly commendable and I should say it is one of the best dramas in Sanskrit. The art of thieving, the art of gambling are very well described by the author.

The drama ‘mrchchakatikam’ was taken as a movie in hindi and the name of the movie is ‘Utsav’.

2 Comments:

  1. L N Srinivasakrishnan said...
    'संस्कृतॆ लिखामः' अति रुचिकरमस्ति। भवत्याः कृष्णानुभवो'पि प्रेरणापूर्वको'स्ति। अयम् वृत्तपत्रतल्लजः अनुदिनं अभिवर्धते इति आशासे।

    महाकविशूद्र्कविषयः शुभारब्धो'पि सन् वर्त्तमाने पत्रे किंञ्चिदर्थभेदो दृश्यते। यथा हि अभियु्क्तेन पृथ्वीधरेण 'द्विजमुख्यतमः क्षत्रजातिश्रेष्ठः' इति व्याख्यातं। 'त्रयो वर्णा द्विजातयः' इति स्मृतेः क्षत्रिये'पि द्विजप्रयोगः इत्यनेन एवमाख्यातमिति मन्ये।


    बौद्धसूत्रेष्वपि भगवतं बुद्धं द्विजः इति बौद्धाचार्यैः आह इति मया श्रुतं।

    निम्नलिखिते ग्रन्थे द्विजपदस्य प्रयोगविवेकं कालनिर्णयं च विस्तृतं -

    The twice-born, a study of a community of high-caste Hindus,
    Carstairs, G. Morris, Indiana University Press, 1961.

    भवदीयः,

    श्रीनिवासकृष्णः
    PRG said...
    धन्यवादाः,भवता यत् उक्तं तत् सत्यम्। मया लेखः परिष्कृतः।
    कृष्णानुभवश्लोकाः न मया लिखिताः। ते श्लोकाः मम मित्रेण लिखिताः।
    प्रतिलेखस्यान्ते लेखकस्य नाम दत्तमस्ति।

Post a Comment



Blogger Template by Blogcrowds