शास्त्रं वदति – 28

Saastram speaks -28

यं मातापितरौ क्लेशं सहेते संभवे नृणाम् ।

न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥


yam mätäpitarou kleçam sahete sambhave nåëäm

na tasya niñkåtiù çakyä kartum varñaçatairapi


The trouble and pain that the parents undergo on the birth of their children cannot be compensated even in hundred years.


मातापितरौ - parents , नृणाम् – people (children) , संभवे - on the birth, यं क्लेशं- that pain , सहेते- bear or undergo , तस्य निष्कृतिः- discharge of a debt or obligation, वर्षशतैरपि- even in hundred years, कर्तुं- to do , - not , शक्या - possible .

श्लोकोऽयं मह्यं रोचते – 56

छि
छिन्नमप्यतनु हारमण्डलं मुग्धया सुरतलास्यकेलिभिः ।
न व्यतर्किं सुदृशा चिरादपि स्वेदबिन्दुकितवक्षसा हृदि ॥ (18, 107)

The above sloka is from the eighteenth canto of sri Harsha’s ‘naishadiya charitam’.

The eighteenth canto starts with a description of nala’s palace but the main portion of this canto describes the love sport between Nala and Damayanti. The above verse is one from the same canto where the intimacy between the couple has been poetically fancied by the poet sri Harsha

शास्त्रं वदति -27

Saastram speaks -27

न तेन वृद्धो भवति येनास्य पलितं शिरः ।

यो वै युवा-अप्यधीयानस् तं देवाः स्थविरं विदुः ॥

na tena våddho yenäsya palitam çiraù

yo vai yuvä- apyadhéyänas tam deväù sthaviram viduù

A man is not honoured just because his head is grey. Though young if he has learnt the scriptures then the gods consider him as an honourable person.

न- not, तेन- by that, वृद्धो- old , भवति- becomes, येनास्य- by which, पलितं-grey, शिरः- head, यो वै- who, युवा अपि – though young , अधीयानः – learned (learnt the Vedas) , देवाः- the gods , तं- him , स्थविरं- aged, विदुः- know or consider.

There is a term called ज्ञानवृद्धः’ in Sanskrit. Though a person is young by age but given due respect due to the depth of knowledge.

कविः 10

वेदान्त देशिकः
सप्तशतवर्षात्पूर्वम् काञ्चीपुरतुप्पुल् ग्रामे श्रीवेङ्कटनाथः समजनि ।
सः स्व प्रतिभया वेदन्तदेशिकः अभवत् । एकदा सः स्व गुरुणा मातुलेन अप्पुल्लालेन सह ‘ नडदूर् अम्माल् ’ इति नाम्ना प्रसिद्ध-आचार्यस्य उपन्यासार्थं जगाम। तत्र तेजस्विनं देशिकं दृष्ट्वा श्री अम्माल् –
“प्रतिष्ठापित वेदान्ताः प्रतिक्षिप्त - बहिर्मतः त्रैविद्यामान्यास्त्वम् भूरि कल्याण भाजनम् ” इति आशीः ददुः।
श्री देशिकः अष्टाविंशत्यधिक स्त्तोत्रग्रन्थान् , चतुर्दशवेदान्त ग्रन्थान्, द्वौ अनुष्ठानग्रन्थौ , चतुर्काव्यग्रन्थान् , अष्टव्याख्यानग्रन्थान् , द्वात्रिंशत् रहस्यग्रन्थान् , एकं नाटकं च संस्कृते अरचयत्। अनेन आचार्येण द्रविडभाषायामपि द्विचत्वारिंशत् ग्रन्थाः विरचिताः। विशिष्टाद्वैतसिद्धान्तः सर्वत्र प्रचारितः। अनेन विरचितं ‘हंस संदेशः’ इति महाकाव्यं कालिदासप्रणीतं मेघदूतमिव भवति। अत्र श्रीरामः सीतां प्रति हंसं प्रेषयति।
पादुकासहस्रम् इति काव्ये अष्टोत्तरसहस्र श्लोकाः सन्ति।द्वात्रिंशत् पद्धतिः अत्र विद्यन्ते।भगवतः पादुकयोः वर्णनं सर्वेषु श्लोकेषु दृश्यते। एवम् अयं ग्रन्थः एकस्यां रात्रौ एव श्रीदेशिकेन लिखितः । अस्य आचार्यस्य यादवाभ्युदयम्
(काव्यं ) , तत्वमुक्ताकलापः ,अधिकरणसारावली, शतदूषणी, चतुश्लोकीभाष्यं , श्रीमद्रहस्यत्रयसारम् , अडैक्कलपत्तु (द्रविडभाषायां) इति एते प्रसिद्धाः ग्रन्थाः। स्तोत्रेषु हयग्रीवस्तोत्रं , श्रीस्तुतिः , सुदर्शनाष्टकम् एवं दयाशतकं च सर्वैः अनुदिनं पठ्यन्ते।
श्रीसुदर्शनभट्टेन विरचितं श्रुतप्रकाशिकानाम श्रीभाष्यव्याख्यानं अचार्यवर्यैः श्रीवेदान्तदेशिकैरेव परिरक्षितं तथा प्रकाशितं च।
श्रीमद्वेदान्तदेशिकस्य पुत्रः स्व गुरोः श्रीमद्वेदान्तदेशिकमङ्गलाशासने - एवं वदति

श्रुतप्राकाशिका भूमौ येनासौ परिरक्षिता ।
प्रवर्तिता च पात्रेषु तस्मै श्रेष्ठाय मङ्गलम्॥
सांस्कृतीभिर्द्रामिडीभिः बह्वीभिः कृतिभिर्जनान्।
यस्समुज्जीवयामास तस्मै सेव्याय मङ्गलम्॥
एवम्
वेदे सञ्जात खेदे मुनिजन वचने प्राप्तनित्यावमाने
संकीर्णे सर्ववर्णे सति तदनुगुणे निष्प्रमाणे पुराणे।
मायावादे समोदे कलिकलुष वशाच्छून्यवदेऽविवादे
धर्मत्राणाय योऽभूत् स जयति भगवान् विष्णुघण्टावतारः॥
“विष्णोः घण्टावतारः एव श्रीवेदान्त देशिकः” इति गुरुम् अपि च पितरं विशेषयति
कुमारवरदार्यः।

cut and paste the link below to read about vedanta desika in english
http://en.wikipedia.org/wiki/Vedanta_Desika

शास्त्रं वदति –26

Saastram speaks – 26

विद्यया एव समं कामं मर्तव्यं ब्रह्मवादिना ।

आपद्यपि हि घोरायां न तु एनाम् इरिणे वपेत् ॥ (2, 113)

vidyayä eva samam kämam martavyam brahmavädinä

äpadyapi hi ghoräyäm na tu enäm iriëe vapet

ब्रह्मवादिना – by a teacher , विद्यया एव समं – along with his knowledge, कामं मर्तव्यं – can die , हि - but, घोरायां - terrible , आपद्यपि- calamity or distress , न तु - should not, इरिणे- a saline soil ( a field unfit for sowing) , वपेत् - sow .

Even in times of terrible distress a teacher of veda should rather die with his knowledge than sow it in barren soil. The teacher should see whether the disciple is fit enough to learn the scriptures.

कविः – 9

भासः

संस्कृतसाहित्ये कवेः भासस्य प्रशस्तिप्रकटने कालिदासादि कवीनां प्रशंसापूर्वकवचनान्येव साधु। अलमतिप्रसङ्गेन। कालिदासः स्वस्य मालवाग्निमित्रनाटकस्य प्रस्तावनायां कविभासमधिकृत्य एवं वर्णयति-

प्रथितयशसां भाससौमिल्लकविपुत्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां कथं परिषदोऽस्याः बहुमानः।

अत्र वर्ण्यमाणानां भाससौमिल्लकविपुत्रादीनां त्रयाणां कवीनां मध्ये कविभासस्यैव प्रथमं स्थानं दत्तं कविश्रेष्ठैः कालिदासैः ।

बाणोच्छिष्टं जगत् सर्वमिति यशसा विख्यातेन बाणभट्टेन हर्षचरितस्य प्रस्तावनायां भासविषये एवं आलिख्यते-

सूत्रधारकृतारम्भैः नाटकैर्बहुभूमिकैः ।

सपातकैर्यशो लेभे भासो देवकुलैरिव ॥

नानाप्रकारकथाभिः तथा बहुपात्रयुक्तानि नाटकानि कविभासैः विरचितानि इति अस्मात् श्लोकात् ज्ञायते। यद्यपि बहुभिः कविभिः भासस्य यशः प्रकटितं तथापि दौर्भाग्यवशात् एतादृशस्य महाकवेः जन्मादिविषये यु्क्तिपूर्वकविषयाः अनुपलब्धाः। भासः इति शब्दोऽपि तस्य गोत्रनाम एव न तु यथार्थनाम।

संस्कृतसाहित्ये भासकृतानि त्रयोदशनाटकानि प्रसिद्धानि वर्तन्ते। तानि च

स्वप्नवासवदत्तम् , प्रतिज्ञायौगन्धरायणम् , अविमारकम्, चारुदत्तम् , बालचरितम्, मध्यमव्यायोगम् , पञ्चरात्रम्, दूतवाक्यम् , दूतघटोत्कचम् , कर्णभारम् , ऊरुभङ्गम् , प्रतिमानाटकम्, अभिषेकनाटकम् ।

एतेषां नाटकानां संख्याः, मूलानि, अनन्तानि तथा विविधानि पात्रकल्पनानि च भासस्य विषये कालिदासबाणभट्टादीनां प्रशंसावाक्यानि समर्थयन्ति ।

Poet -9

Bhaasa

Bhaasa was a reputed dramatist of ancient India whose plays were popular even in the days of kaalidasa. High praise has been bestowed on him by kaalidasa in the introductory part of his drama maalavikaagnimitram - प्रथितयशसां भाससौमिल्लकविपुत्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां कथं परिषदोऽस्याः बहुमानः। ‘ Of the three authors referred to in the above line (Bhaasa, soumilla and kaviputra) Bhaasa is given the first place.

Baanabhatta the famous author of kaadambarii, refers to bhaasa in the introduction of his srIharashacharitam –

सूत्रधारकृतारम्भैः नाटकैर्बहुभूमिकैः ।

सपातकैर्यशो लेभे भासो देवकुलैरिव ॥

The above reference says that bhaasa wrote many plays with a variety of characters and incidents.

It is really unfortunate that we do not know anything about the personal history of this great author. Even the word bhaasa does not appear to be his real name, but only his gotra name.

The following thirteen works were written by bhaasa-

Svapnavaasavadattam, Pratignya yougandharaayanam, Avimaarakam, chaarudattam, Baalacharitam, Madhyama vyaayogam, Pancharaatram, Doota vaakyam, Doota ghatotkacham, Karnabhaaram,Uru bhangam, Pratimaa naatakam and Abhisheka naatakam.