श्लोकोऽयं मह्यं रोचते - 68

ती
तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वो-
र्देहत्यागादमरगणनालेख्यमासाद्य सद्यः।
पूर्वाकाराधिकचतुरया सङ्गतः कान्तयासौ
लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु॥ रघुवंशः ८-९५॥
tīrthe toya-vyatikara-bhave jahnu-kanyā-sarayvo-
rdeha-tyāgād-amaragaṇanā-lekhyam-āsādya sadyaḥ।
pūrvākārādhika-caturayā saṅgataḥ kāntayāsau
līlāgāreṣvaramata punar-nandanābhyantareṣu॥

अजविलापसर्गे अन्तिमश्लोकः अयं मया विश्रान्तिपूर्वं पठितः आसीत्।

सर्गेऽस्मिन् इन्दुमत्याः मरणं सम्भवति अजश्च तस्याः अदर्शनं स्वस्य तया विना जीवनमिति द्वेपि स्थिती षड्विंशति श्लोकेषु वर्णिते। यद्यपि लघ्वी सा कथा पठितॄणां मनसि गाढं भावम् जनयति। विलापानन्तरं वसिष्ठमहर्षिः शिष्यद्वारा लघुसन्देशं प्रेष्यति -
मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः।
क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ॥
आत्मनात्मविवेकी त्वम् समाश्वसिहीति। तदनन्तरम् अजस्तु दशरथे राज्यधुरं न्यस्य गङ्गासरय्वोः तीरे देहं तत्याज। यदि कालिदासः एवं समापयिष्यत् तर्हि रसविच्छित्तिः अभविष्यत्। अतः अजः इन्दुमत्या सह स्वर्गनन्दवने अरमत इत्युक्त्वा सर्गं समापयति। "Happy Ending" इत्यतः प्रथमम् अवदम् "विश्रान्तिपूर्वं मया पठितः श्लोकः" इति।