श्लोकोऽयं मह्यं रोचते - 69

तु
(Remembering Dr. S. Meera)

तुमं सि मए चूदंकुर दिण्णो कामस्स गहीद-धणुअस्स।
पहिअ-जण-जुवइ-लक्खो पंचाब्भहिओ सरो होहि॥ अभिज्ञानशाकुन्तलम् - ६.३॥

त्वमसि मया चूताङ्कुर दत्तः कामाय गृहीतधनुषे।
पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिकः शरो भव॥

O Mango blossom, I offer you to the God of Love, who has taken up his bow. May you, who has the young wives of journeying men as your target, become the most effective arrow of his five arrows.

वसन्तर्तोः प्रारम्भे कामपूजा, मन्मथस्य धनुर्ग्रहणं, पञ्चबाणानां मध्ये चूताङ्कुरस्य प्रथमाविर्भावः, पथिकजनयुवतीनां विरहः, इति प्रभूतान् अतिशयान् विषयान् कविः कालिदासः प्रदर्शयति अस्मान् अस्मिन् श्लोके। नैतानि कारणानि मम रुचेः।

मद्रपुरीविश्वविद्यालये आसीदार्या मीरा अध्यापिका साहित्यशास्त्रस्य। तस्याः अत्यद्भुतमेकं कौशलम् अधुनापि अस्माभिः शिष्यैः आत्मीयं कर्तुं न शक्यते। काव्यं, शास्त्रं, व्याख्यानं, टिप्पणी इति यद्यत्संस्कृते प्राकृते वा लिखितमासीत् तत् सर्वम् आचार्या अनायासेन आङ्गिलभाषायाम् अनुवादम् अकरोत्। She would do it as if she was reading a translation. प्रायः सर्वे इदानीन्तनाः अध्यापकाः प्राकृतं न पठति, संस्कृतानुवादमेव पठित्वा विवृण्वन्ति। मीरा महोदया तु प्राकृतमपि पठित्वा तत्र पाठभेदान् व्याकरणविशेषान् च अवदत्। बहुमान्या महोदया यद्यपि भौतिकशरीरेण न विद्यते तथापि अस्माकं मनस्सु विचारेषु सर्वदा जीवन्ती अस्ति। धन्याः स्मः।