कविः 11

श्रीजगन्नाथ पण्डितः
अयं कविरेव पण्डितराजः इति विशेषेण प्रसिद्धः।पेरुभट्टाख्यस्य शास्त्रज्ञस्य पुत्रः श्रीजगन्नाथपण्डितः।अयं कविः भट्टोजिदीक्षित अप्पय्य दीक्षितयोः समकाले एव अवसत् इतिग्रन्थेभ्यः ज्ञातुं शक्यते। एष कविः दिल्लीनगरस्य राज्ञः शहजहानात् “पण्डितराज ” बिरुदः प्राप्तः।
अनेन कविना बहवः ग्रन्थाः विरचिताः। तेषु रसगङ्गाधरः दिङ्मात्रम् विज्ञेयः।
आलङ्कारिकाणाम् अलङ्कारः अयं ग्रन्थः। अप्पय दीक्षितेन विरचित
चित्रमीमांसायाः खण्डनरूपः “चित्रमीमांसा खण्डनम् ” इति ग्रन्थः।एवं भट्टोजि
दीक्षितेन विरचित मनोरामा खण्डन ग्रन्थः “मनोरमाकुचमर्दनम्”। सुधालहरी,
यमुनालहरी , अमृतलहरी, प्राणाभरणम् इत्यादयः ग्रन्था अपिअनेन कविना
लिखितः इति श्रूयते। कवेः अन्तिम कालः वाराणसी प्रदेशे एव असीत् इति
च श्रूयते॥