वेदान्त देशिकः
सप्तशतवर्षात्पूर्वम्  काञ्चीपुरतुप्पुल् ग्रामे श्रीवेङ्कटनाथः समजनि ।
सः स्व प्रतिभया वेदन्तदेशिकः अभवत् । एकदा सः स्व गुरुणा मातुलेन अप्पुल्लालेन सह ‘ नडदूर् अम्माल् ’ इति  नाम्ना प्रसिद्ध-आचार्यस्य उपन्यासार्थं जगाम। तत्र तेजस्विनं देशिकं     दृष्ट्वा   श्री  अम्माल् –
“प्रतिष्ठापित वेदान्ताः  प्रतिक्षिप्त - बहिर्मतः   त्रैविद्यामान्यास्त्वम् भूरि कल्याण भाजनम् ”  इति आशीः ददुः।
श्री देशिकः अष्टाविंशत्यधिक स्त्तोत्रग्रन्थान् , चतुर्दशवेदान्त ग्रन्थान्, द्वौ अनुष्ठानग्रन्थौ , चतुर्काव्यग्रन्थान्  , अष्टव्याख्यानग्रन्थान् , द्वात्रिंशत् रहस्यग्रन्थान् ,  एकं नाटकं च संस्कृते अरचयत्। अनेन आचार्येण द्रविडभाषायामपि द्विचत्वारिंशत् ग्रन्थाः विरचिताः। विशिष्टाद्वैतसिद्धान्तः सर्वत्र प्रचारितः। अनेन विरचितं  ‘हंस संदेशः’ इति महाकाव्यं  कालिदासप्रणीतं मेघदूतमिव भवति।   अत्र श्रीरामः सीतां प्रति हंसं प्रेषयति।
पादुकासहस्रम् इति काव्ये अष्टोत्तरसहस्र श्लोकाः सन्ति।द्वात्रिंशत् पद्धतिः अत्र विद्यन्ते।भगवतः पादुकयोः वर्णनं सर्वेषु श्लोकेषु दृश्यते। एवम् अयं ग्रन्थः एकस्यां रात्रौ एव श्रीदेशिकेन लिखितः  । अस्य आचार्यस्य  यादवाभ्युदयम् 
(काव्यं ) , तत्वमुक्ताकलापः ,अधिकरणसारावली,   शतदूषणी, चतुश्लोकीभाष्यं , श्रीमद्रहस्यत्रयसारम् ,  अडैक्कलपत्तु (द्रविडभाषायां) इति एते प्रसिद्धाः ग्रन्थाः। स्तोत्रेषु  हयग्रीवस्तोत्रं ,  श्रीस्तुतिः , सुदर्शनाष्टकम् एवं दयाशतकं च सर्वैः अनुदिनं  पठ्यन्ते।
श्रीसुदर्शनभट्टेन विरचितं  श्रुतप्रकाशिकानाम श्रीभाष्यव्याख्यानं  अचार्यवर्यैः  श्रीवेदान्तदेशिकैरेव परिरक्षितं  तथा प्रकाशितं च।
श्रीमद्वेदान्तदेशिकस्य पुत्रः  स्व गुरोः श्रीमद्वेदान्तदेशिकमङ्गलाशासने - एवं वदति
     श्रुतप्राकाशिका भूमौ येनासौ परिरक्षिता ।
       प्रवर्तिता च पात्रेषु तस्मै श्रेष्ठाय मङ्गलम्॥
     सांस्कृतीभिर्द्रामिडीभिः बह्वीभिः  कृतिभिर्जनान्।
        यस्समुज्जीवयामास तस्मै सेव्याय मङ्गलम्॥
एवम्
           वेदे  सञ्जात खेदे  मुनिजन वचने प्राप्तनित्यावमाने
  संकीर्णे सर्ववर्णे सति तदनुगुणे निष्प्रमाणे पुराणे।
           मायावादे  समोदे  कलिकलुष वशाच्छून्यवदेऽविवादे
              धर्मत्राणाय योऽभूत् स जयति भगवान् विष्णुघण्टावतारः॥
“विष्णोः घण्टावतारः एव श्रीवेदान्त देशिकः” इति गुरुम् अपि च  पितरं विशेषयति
कुमारवरदार्यः।
cut and paste  the link below  to read about vedanta desika in english
http://en.wikipedia.org/wiki/Vedanta_Desika
No comments:
Post a Comment