कविः – 4

श्रीहर्षः

सद्यः परनिर्वृत्तये कान्तासम्मिततयोपदेशयुजे इति काव्यस्य ख्यातिः अस्ति। काव्येषु पञ्चमहाकाव्यानि प्रसिद्धानि। तादृश पञ्चमहाकाव्येषु एकतमस्य नैषधीयचरितस्य प्रणेता श्रीहर्षः अस्ति। सः कविः श्रीहीरपण्डितान्मामल्लदेव्यां समजनीति तस्य काव्यस्य प्रतिसर्गस्य समाप्तिश्लोकतः ज्ञायते।

अत्र हि श्लोकः -

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं

श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।

तच्चिन्तामणिमन्त्रचिन्तनफले श्रृङ्गारभङ्ग्या महा-

काव्ये चारुणि नैषधीयचरिते सर्गोऽयमादिर्गतः ।।

आसीत् काश्यां राजा जयन्तचन्द्रो नाम। तस्य च राज्ञः सदसि बहवः विद्वांसः बभूवुः। तत्रैको हीरनामा विप्रः। तस्य नन्दनः प्राज्ञचक्रवर्ती श्रीहर्षः।

यदा श्रीहर्षः बालावस्थायाम् आसीत् तदा एकस्मिन् दिने राजसभायां पण्डितेन एकेन वादे हीरः जितः। तदनन्तरं हीरः दुःखे मग्नोऽभूत्। सः हीरः मृत्युकाले पुत्रं हर्षमाहूय नृपसदसि जितोऽहं पण्डितेन। तन्मे दुःखम्। यदि त्वं सत्पुत्रोऽसि, तर्हि भूमिपालसदसि तं वादिनं जयेःइत्युक्त्वा दिवं गतः।

श्रीहर्षः विविधाचार्येषु अलंकारगीतगणितज्यौतिषव्याकरणचूडामणिमन्त्रादि सर्वाः विद्याः प्रजग्राह। गङ्गातीरे सुगुरुदत्तं चिन्तामणिमन्त्रं साधयामास। तदा साक्षात् भारती प्रत्यक्षाऽभूत्। अमोघादेशवराप्तिः अभूत्। तेन हर्षेण यत् उच्यते तत् अन्यैः केवलं श्रूयते परन्तु न किमप्यवगम्यते। ततः अतिविद्ययाऽपि लोकागोचरतया पुनः भारती उपास्यते कविना। भारत्योपदिष्टः सः आर्द्रशिरसि दधि पपौ, कफांशावतरात् सः लेशं जडताम् प्राप्नोत्, तथा च, बोध्यवागासीत्।

तदनन्तरं, वादे पितृवैरिणं वादिनं जित्वा, पितृवाक्यं परिपाल्य, द्वाविंशतिसर्गयुक्तं नैषधीयचरितं च विरचय्य राज्ञे दर्शितम्।हर्षितो राजा तस्मै सम्मानं प्रयच्छत्।

पञ्चमहाकाव्येषु नैषधीयचरितस्यार्थावगमनं दुष्करमस्ति, लेशजडस्थित्यामेवास्य कवेः कठिनप्रयोगाः, किं पुनः संपूर्णज्ञाने ?

Poet -4

srI harsha

SrI Harsha is the author of NaishadIya charitam, the one among the pancha mahAkavyam in Sanskrit. At the end of every canto he mentions about his father hIra, a great scholar and his mother mAmalla devI.

The sloka reads-

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं

श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।

तच्चिन्तामणिमन्त्रचिन्तनफले श्रृङ्गारभङ्ग्या महा-

काव्ये चारुणि नैषधीयचरिते सर्गोऽयमादिर्गतः ।।


śrīharṣaṁ kavi-rāja-rāji-mukuṭālaṅkāra-hīraḥ sutaṁ
śrīhīraḥ suṣuve jitendriyacayaṁ māmalladevī ca yam
taccintāmaṇi-mantra-cintana-phale śṛṅgārabhaṅgyā mahā-
kāvye cāruṇi naiṣadīyacarite sargo'yamādirgataḥ


There was a king by name Jayachandra in vAraNAsI, who was patronizing many scholars and poets. SrI HIra was one among the scholars. Once there was a debate between a scholar and hIra. The former won over hIra, by which the pride of hIra was completely shattered. When hIra was in his death bed he called his son Harsha and took a promise that his son will win over the scholars in the same king’s court where he lost.

Having promised his father srI harsha learnt not only the sAstras under many teachers, but he also learnt the cintAmaNi mantra and mastered the mantra in a year and acquired high knowledge, by which people were unable to understand what he said. So, as advised by goddess saraswatI, during midnight with wet hair he drank curd. Affected by sudden cough and phlegm he started vomiting because of that his power of knowledge reduced and so that he could write in a simple style. After that he wrote the kAvyam naishadiya charitam, a story on nala and damayantI in 22 cantos, in a simple style.

An average reader would find it difficult to comprehend even the current work in one reading, then one could very well imagine………. If he had continued writing in the original style.

1 comment:

Unknown said...

I am very happy to read the slokas of Sriharsha Naishadham along with Sanskrit interpretations. I would like to read the entire swayamwara Kannam , probably Kantos 6 to 12, original shlokas with Sanskrit interpretations.

Can you please suggest me a published book on this topic. I know Tamil, but not not Telugu.

Thanking you
A.Raju. Mumbaii