कविः – 7

भारविः
संस्कृतसाहित्ये महाकविकालिदासस्यानन्तरं महाकवेः भारवेः द्वितीयं स्थानं वर्तते। अयं कविः दाक्षिणात्यब्राह्मणो आसीत्। महाकविदण्डिना रचित अवन्तिसुन्दरिकथानुसारेण अयं कविः दक्षिणस्य अचलपुरग्रामनिवासिनः पण्डितः नारायणस्वामिनः पुत्रः आसीत्। अस्यैव अन्यनाम दामोदरः तथा च अयं चालुक्यवंशस्य राजा विष्णुवर्धनस्य सभायामासीत् इत्यपि श्रूयते। कवेः भारवेः व्यक्तिगतजीवनस्य विषये एतदेव ज्ञायते।
भारविना रचितं किरातार्जुनीयम् महाकाव्येषु एकमस्ति। अष्टादशसर्गयुक्तस्य अस्य काव्यस्य कथावस्तु महाभारतस्य कथाधारेण भवति। अस्य काव्यस्य प्रतिसर्गस्य आरम्भं ‘श्री’ इति पदेन भवति, तथा च प्रतिसर्गस्य अन्तं ‘लक्ष्मी’ पदेन भवति।
अर्जुनः एव अस्य काव्यस्य नायकः भवति। कुरुक्षेत्रयुद्धात् पूर्वं अर्जुनः पाशुपतास्त्रार्थं शिवं ध्यात्वा तपः करोति। तदा भगवान् शिवः किरातरूपेण आगत्य अर्जुनं परीक्ष्य तं पाशुपतास्त्रं ददाति। अयमेव अस्य काव्यस्य सारांशः।
भारवेः शैल्यां शब्दप्रयोगाः कठिनाः परन्तु यदि विभज्य अर्थो ज्ञायते तर्हि अतिसरलः इव दृश्यते। तस्मादेव अस्य कवेः वचः नारिकेलफलसममिव विद्वांसः वदन्ति।

नारिकेलफलसन्निभं वचो भारवेः सपदि यद्विभज्यते।
स्वादयन्तु रसगर्भनिर्भरं सारमस्य यथेप्सितम्॥
Poet – 7
Bhaaravi
see the link below
http://en.wikipedia.org/wiki/Bharavi

0 Comments:

Post a Comment



Blogger Template by Blogcrowds