दशकुमारचरिते पठितं मया - "सकलभूपालकुलस्य मध्ये तेजोवरिष्ठो गरिष्ठो भवान् अद्य ..." इति। मम छात्रा एका माम् अपृच्छत् - "श्रेयान्" इति शब्दः अपि एवं भवति किमिति। (उत्तरं लेखस्यान्ते वर्तते।) काञ्चन शब्दान् अनालोच्यैव उपयोजयामो वयम् दैनन्दिने संस्कृते।

वरिष्ठः गरिष्ठः इति यदा अपठम् तदा कुचेलोपाख्यानस्मरणम् अभूत् मनसि। कृष्णसखा कुचेलः ब्रह्मविद्वरिष्ठः इत्युक्तं श्रीशुकेन।

            कृष्णस्यासीत् सखा कश्चित् ब्राह्मणो ब्रह्मवित्तमः
            विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रयः॥
                                                        (श्रीमद्भागवतम् स्क० १० अ० ८० श्लो ६)

अत्र श्रीविद्यरण्यस्वामिना विरचिते जीवन्मुक्तिविवेके ब्रह्मवेत्तॄणामपि तारतम्यं विद्यते इति दर्शयति -

तदेव तारतम्यमभिप्रेत्य श्रूयते - *आत्मक्रीड आत्मरतिः क्रियावानेष
ब्रह्मविदां वरिष्ठः* - इति ।
अत्र चत्वारः प्रतीयन्ते - *ब्रह्मवित् *प्रथमः , *ब्रह्मविद्वरो
*द्वितीयः , *ब्रह्मविद्वरीयान्
*तृतीयो , *ब्रह्मविद्वरिष्ठः *चतुर्थः । त एते सप्तसु योगभूमिषु चतुर्थीं
योगभूमिमारभ्य क्रमेण भूमिचतुष्टयं प्राप्ता - इत्यवगन्तव्यम् । 
(source, because I have not had the opportunity to look at the original)

तरप् तमप् इति द्वौ प्रत्ययौ अतिशयार्थे उपयुज्येते। द्वयोः वस्तुनोः एकम् अतिशयेन वर्तते इति दर्शयतुं तरप् उपयुज्यते। वस्तूनां समूहे एकमेव अतिशयेन वर्तते इति विवक्षायां तमपि उपयुज्यते। उदाहरणाय -

अजः क्षिप्रः जन्तुः। सिंहोऽपि क्षिप्रः। अजसिंहयोः सिंहः क्षिप्रतरः। किन्तु सर्वेषु चतुष्पदेषु जन्तुषु चित्रव्याघ्रः (cheetah) क्षिप्रतमः।

इदमेव "ईयसुन् इष्ठन्" इति द्वाभ्यां प्रत्ययाभ्यामपि वक्तुं शक्यते। यथा -

अजः क्षिप्रः।
अजसिंहयोः सिंहः क्षेपीयान्।
सर्वजन्तुषु चित्रव्याघ्रः क्षेपिष्ठः।

श्रेयस् इति शब्दमञ्जर्यां दृष्टश्शब्दः वस्तुतः प्रशस्य + ईयसुन्, श्र आदेशेन, श्रेयस् इति प्रातिपदिकम्, श्रेयान् श्रेयांसौ श्रेयांसः इति शब्दप्रक्रिया च भवति।

मन्त्री प्रशस्यः।
राजामन्त्रिणोः राजा श्रेयान्।
सर्वेषु मनुष्येषु विद्वान् श्रेष्ठः।

0 Comments:

Post a Comment



Blogger Template by Blogcrowds