साहित्यशास्त्रे व्याख्यातॄणां स्थानमतीव महत्त्वं वहति । तैर्विना काव्यानुसन्धानं न शक्यते । किन्तु तेऽपि कवयः अत एव तैरेवम् अत्यद्भुतरीत्या कवीनां मनस्सु विद्यमानानि रत्नानि उद्धृत्य श्रोतॄणामानन्दाय ददति । तेषु प्रथमतया मल्लिनाथसूरिः स्वीक्रियते मया अत्र -
यद्यत्संस्कृतसाहित्यविषये जानामि तत् लेखितुम् इदमेकं माध्यममिति मन्ये। अन्येऽपि लेखिष्यन्तीति आशासे।
अहंयुः - The arrogant one
नीलकण्ठदीक्षितैः स्वस्मिन् महाकाव्ये शिवलीलार्णवे —
यानेव शब्दान् वयमालपामो यानेव चार्थान् वयमुल्लिखामः ।
तैरेव विन्यासविशेषभव्यैः संमोहयन्ते कवयो जगन्ति ॥१३॥
Using the same words and meaning that we use, a poet places them in a particular arrangement and mesmerizes the world.
Yet, he introduces us to some new words, words that are not commonly seen in other works. One such is अहंयुः ।
अहंयुः - अहम् अस्य अस्ति - अहङ्कारयुक्तः ।
अहंशुभमोर्युस् - ५/२/१४० इति युस्
एतादृशान् शब्दान् उपयुज्य वयमालपामः किम् ? प्रायः नीलकण्ठदीक्षितस्य समये साधारणतया उपयुक्ताः शब्दाः अधुना अस्माकम् अपरिचिताः इति मन्ये ।
Navarathri Stotra Series - मूकपञ्चशती
https://www.youtube.com/playlist?list=PLhFBbqHpypEryBaR0-J0JtvNuESsee7N7
प्रतिदिनम् 6pm Pacific time साक्षात्प्रसारः क्रियते । एतावत् पर्यन्तं पञ्च भाषणानि समाप्तानि । पञ्च अवशिष्टानि । प्रत्येकस्मिन् भाषणे दश श्लोकान् यावतः उद्धृत्य कवितास्वादं कर्तुं कारयितुं च यते । अद्यतनीयभाषणस्य लिङ्क्
https://www.youtube.com/watch?v=5VuMsVyxFgE&ab_channel=LecturesonSanskrittexts
मूककवेः विषये पूर्वलिखितमिदम् http://samskrute.blogspot.com/2009/02/1.html
आधाराधेयभावः
शुकनासोपदेशः - Session 01
Śukanāsa's advice to Chandrāpīḍa - a nugget from Kādambari written by Bāṇabhaṭṭa - I would have read this section a couple of times over the years, taught it too. Yet, it adds one more layer of understanding every time!!
भाषा , व्याकरणम् , साहित्यशास्त्रम् , वेदान्तम् , जीवोपायः इति अनन्ताः विषयाः अधिगन्तव्याः अस्मात् गद्यकाव्यात् ।
कविः 12
विज्जिका
श्लोकोऽयं मह्यं रोचते - 69
(Remembering Dr. S. Meera)
तुमं सि मए चूदंकुर दिण्णो कामस्स गहीद-धणुअस्स।
पहिअ-जण-जुवइ-लक्खो पंचाब्भहिओ सरो होहि॥ अभिज्ञानशाकुन्तलम् - ६.३॥
त्वमसि मया चूताङ्कुर दत्तः कामाय गृहीतधनुषे।
पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिकः शरो भव॥
O Mango blossom, I offer you to the God of Love, who has taken up his bow. May you, who has the young wives of journeying men as your target, become the most effective arrow of his five arrows.
वसन्तर्तोः प्रारम्भे कामपूजा, मन्मथस्य धनुर्ग्रहणं, पञ्चबाणानां मध्ये चूताङ्कुरस्य प्रथमाविर्भावः, पथिकजनयुवतीनां विरहः, इति प्रभूतान् अतिशयान् विषयान् कविः कालिदासः प्रदर्शयति अस्मान् अस्मिन् श्लोके। नैतानि कारणानि मम रुचेः।
मद्रपुरीविश्वविद्यालये आसीदार्या मीरा अध्यापिका साहित्यशास्त्रस्य। तस्याः अत्यद्भुतमेकं कौशलम् अधुनापि अस्माभिः शिष्यैः आत्मीयं कर्तुं न शक्यते। काव्यं, शास्त्रं, व्याख्यानं, टिप्पणी इति यद्यत्संस्कृते प्राकृते वा लिखितमासीत् तत् सर्वम् आचार्या अनायासेन आङ्गिलभाषायाम् अनुवादम् अकरोत्। She would do it as if she was reading a translation. प्रायः सर्वे इदानीन्तनाः अध्यापकाः प्राकृतं न पठति, संस्कृतानुवादमेव पठित्वा विवृण्वन्ति। मीरा महोदया तु प्राकृतमपि पठित्वा तत्र पाठभेदान् व्याकरणविशेषान् च अवदत्। बहुमान्या महोदया यद्यपि भौतिकशरीरेण न विद्यते तथापि अस्माकं मनस्सु विचारेषु सर्वदा जीवन्ती अस्ति। धन्याः स्मः।
वैराग्यशतकम् - विषयत्यागः - 19
क्षुधार्तः शाल्यन्नं कवलयति मांसादिकलितम्।
प्रदीप्ते कामाग्नौ सुदृढतरमालिङ्गति वधूं
प्रतीकारं व्याधेः सुखमिति विपर्यस्यति जनः॥१९॥
tṛṣā śuṣyatyāsye pibati salilaṃ śītamadhuraṃ
kṣudhārtaḥ śālyannaṃ kavalayati māṃsādikalitam।
pradīpte kāmāgnau sudṛḍhataramāliṅgati vadhūṃ
pratīkāraṃ vyādheḥ sukhamiti viparyasyati janaḥ॥19॥
तृषा - out of thirst
शुष्यति - dries
आस्ये - in mouth
पिबति - drinks
सलिलं - water
शीतमधुरं - cool and sweet
क्षुधार्तः - hungry person
शाल्यन्नं - cooked rice
कवलयति - eats
मांसादिकलितम् - mixed with meat
प्रदीप्ते - when burning
कामाग्नौ - desire that is fire
सुदृढतरम् - tightly
आलिङ्गति - embraces
वधूं - wife
प्रतीकारं - recourse
व्याधेः - for disease
सुखमिति - happiness
विपर्यस्यति - misconstrues (अतस्मिन् तद् बुद्धिः)
जनः - person
When a person is thirsty he drinks water and when hungry eats rice and when the fire of desire burns, he embraces his wife. Thus, for every disease we misconstrue enjoyment to be the recourse.
क्षुत्कामपिपासादि-व्याधीनाम् उपशमः तत्तद्विषयोपभोगेनैव भवतीति मत्वा वयं पदे पदे विषयेषु गाढतया निमग्नाः भूत्वा संसारचक्रे परिवर्तमानाः सन्तः अज्ञानिनः स्मः। एते सर्वे शरीरधर्मा इति ज्ञानोदये मोक्षमार्गमनुसर्तुं समर्थाः भवेम।
Audio lectures in Tamil - संस्कृतसाहित्यपरिचयः द्रविडभाषायां विवरणञ्च
Hopefully more audio lectures will be hosted.
You can find the links at the Lectures tab at the top of this page.
श्लोकोऽयं मह्यं रोचते - 68
तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वो-
र्देहत्यागादमरगणनालेख्यमासाद्य सद्यः।
पूर्वाकाराधिकचतुरया सङ्गतः कान्तयासौ
लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु॥ रघुवंशः ८-९५॥
tīrthe toya-vyatikara-bhave jahnu-kanyā-sarayvo-
rdeha-tyāgād-amaragaṇanā-lekhyam-āsādya sadyaḥ।
pūrvākārādhika-caturayā saṅgataḥ kāntayāsau
līlāgāreṣvaramata punar-nandanābhyantareṣu॥
अजविलापसर्गे अन्तिमश्लोकः अयं मया विश्रान्तिपूर्वं पठितः आसीत्।
सर्गेऽस्मिन् इन्दुमत्याः मरणं सम्भवति अजश्च तस्याः अदर्शनं स्वस्य तया विना जीवनमिति द्वेपि स्थिती षड्विंशति श्लोकेषु वर्णिते। यद्यपि लघ्वी सा कथा पठितॄणां मनसि गाढं भावम् जनयति। विलापानन्तरं वसिष्ठमहर्षिः शिष्यद्वारा लघुसन्देशं प्रेष्यति -
मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः।
क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ॥
आत्मनात्मविवेकी त्वम् समाश्वसिहीति। तदनन्तरम् अजस्तु दशरथे राज्यधुरं न्यस्य गङ्गासरय्वोः तीरे देहं तत्याज। यदि कालिदासः एवं समापयिष्यत् तर्हि रसविच्छित्तिः अभविष्यत्। अतः अजः इन्दुमत्या सह स्वर्गनन्दवने अरमत इत्युक्त्वा सर्गं समापयति। "Happy Ending" इत्यतः प्रथमम् अवदम् "विश्रान्तिपूर्वं मया पठितः श्लोकः" इति।
द्वेषो मोक्षश्च - Hatred and Moksha
सर्वेषां जनानां जीवनाधारभूताः धर्मार्थकाममोक्षाः इति चत्वारः पुरुषार्थाः। तेषु मोक्षश्च परमपुरुषार्थया सर्वैः अङ्गीक्रियते। कश्च सः मोक्षः? केन प्रकारेण वा प्राप्यते? इति प्रश्नानाम् उत्तरसमये शास्त्रकाराः मोक्षस्वरूपतत्प्राप्तिमार्गवर्णनद्वारा स्वमतस्थापनम् अकुर्वन्।
Every system of philosophy attempts to explain moksha and the methods to attain it in their own way. Moksha is universally accepted as the most important among the purusharthas that everyone strives for in one's life.
Bhakti plays a very important role in this path to moksha. Worshiping the Lord, meditating upon him, loving him, enjoying his qualities and immersing oneself in his stories are some of the ways in which people show their bhakti to the Lord.
In the 7th skandha of Srimad Bhagavatam, Yudhishthira perplexed by Sisupala attaining moksha asks how a person filled with so much of hatred towards Krishna could attain the highest state. Does this not promote an opposing standpoint to Shastras about पुण्य and पाप - we incur पाप by abusing the lord?
अहो अत्यद्भुतं ह्येतद् दुर्लभा एकान्तिनामपि ।
वासुदेवे परे तत्त्वे प्राप्तिश्चैद्यस्य विद्विषः ॥ ७।१।१५ ॥
द्वेषयुक्तेन चैद्यभूपतिना शिशुपालेन कथं योगिदुर्लभं वासुदेवसायुज्यं प्राप्यते इति विस्मितः युधिष्ठिरः।
Narada responds, "Krishna is bound by sentiments of abuse, praise, worship and scorn. In effect, Krishna is neither angry by abuse nor pleased by worship. In fact Sisupala was so consumed by the thoughts of Krishna that he attained moksha"
इदं शरीरं निन्दास्तुत्यादीनां विषयभूतमिति अविवेकिनामाशयः। लोके मनुष्याणां देहाभिमानिनाम्, अहं मम इति वैषम्यस्त्वात्, 'मम इयं निन्दा, अहम् अनेन निन्दितः', अतः हिंसाकारिषु हिंसाचरणम् साध्यम्। किन्तु, भगवतः कृष्णस्य तादृशाभिमानरहितत्वात् 'अहं निन्दितः अनेन' इति चिन्ता न उत्तिष्ठेत्।
In fact, Narada goes to the extent of saying -
यथा वैरानुबन्धेन मर्त्यः तन्मयतां इयात् ।
न तथा भक्तियोगेन इति मे निश्चिता मतिः ॥ २६ ॥
By bhakti one cannot achieve such intense absorption in thought of the Lord as one can through enmity toward Him. That is my firm belief.
Narada then lists various sentiments through which people have attained moksha or enjoyed the presence of Lord Krishna.
कामाद् द्वेषाद् भयात् स्नेहाद् यथा भक्त्येश्वरे मनः ।
आवेश्य तद् अघं हित्वा बहवः तद्गतिं गताः ॥ २९ ॥
गोप्यः कामाद् भयात् कंसो द्वेषात् चैद्यादयो नृपाः ।
सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो ॥ ३० ॥
Love - Gopis
Fear - Kamsa
Hatred - Sisupala
Association - Yadavas
Friendship - You all (Pandavas)
Bhakti - We (Sages like Narada)
Of course, we should not take this literally and start hating the lord. The key to this long winding approach is तन्मयत्वम् - complete absorption in the thought of Krishna.
Comparison and Superlative
वरिष्ठः गरिष्ठः इति यदा अपठम् तदा कुचेलोपाख्यानस्मरणम् अभूत् मनसि। कृष्णसखा कुचेलः ब्रह्मविद्वरिष्ठः इत्युक्तं श्रीशुकेन।
कृष्णस्यासीत् सखा कश्चित् ब्राह्मणो ब्रह्मवित्तमः।
विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रयः॥
(श्रीमद्भागवतम् स्क० १० अ० ८० श्लो ६)
अत्र श्रीविद्यारण्यस्वामिना विरचिते जीवन्मुक्तिविवेके ब्रह्मवेत्तॄणामपि तारतम्यं विद्यते इति दर्शयति -
ब्रह्मविदां वरिष्ठः* - इति ।
अत्र चत्वारः प्रतीयन्ते - *ब्रह्मवित् *प्रथमः , *ब्रह्मविद्वरो
*द्वितीयः , *ब्रह्मविद्वरीयान्
*तृतीयो , *ब्रह्मविद्वरिष्ठः *चतुर्थः । त एते सप्तसु योगभूमिषु चतुर्थीं
योगभूमिमारभ्य क्रमेण भूमिचतुष्टयं प्राप्ता - इत्यवगन्तव्यम् ।
तरप् तमप् इति द्वौ प्रत्ययौ अतिशयार्थे उपयुज्येते। द्वयोः वस्तुनोः एकम् अतिशयेन वर्तते इति दर्शयतुं तरप् उपयुज्यते। वस्तूनां समूहे एकमेव अतिशयेन वर्तते इति विवक्षायां तमपि उपयुज्यते। उदाहरणाय -
अजः क्षिप्रः जन्तुः। सिंहोऽपि क्षिप्रः। अजसिंहयोः सिंहः क्षिप्रतरः। किन्तु सर्वेषु चतुष्पदेषु जन्तुषु चित्रव्याघ्रः (cheetah) क्षिप्रतमः।
इदमेव "ईयसुन् इष्ठन्" इति द्वाभ्यां प्रत्ययाभ्यामपि वक्तुं शक्यते। यथा -
अजः क्षिप्रः।
अजसिंहयोः सिंहः क्षेपीयान्।
सर्वजन्तुषु चित्रव्याघ्रः क्षेपिष्ठः।
श्रेयस् इति शब्दमञ्जर्यां दृष्टश्शब्दः वस्तुतः प्रशस्य + ईयसुन्, श्र आदेशेन, श्रेयस् इति प्रातिपदिकम्, श्रेयान् श्रेयांसौ श्रेयांसः इति शब्दप्रक्रिया च भवति।
मन्त्री प्रशस्यः।
राजामन्त्रिणोः राजा श्रेयान्।
सर्वेषु मनुष्येषु विद्वान् श्रेष्ठः।
श्लोकोऽयं मह्यं रोचते - 67
प्रलयस्थितिसर्गाणामेकः कारणतां गतः॥ २-६॥ कुमारसम्भवः॥
pralayasthitisargāṇāmekaḥ kāraṇatāṁ gataḥ || 2-6॥ Kumarasambhava
वैराग्यपञ्चकम् - 6
अस्ति मे हस्तिशैलाग्रे वस्तु पैतामहं धनम्॥
पित्रा = by father, आर्जितं = earned, किञ्चित् = little, नास्ति = not, मया = by me, किञ्चित् = a little, आर्जितं = earned, न=not, हस्तिशैलाग्रे = at the top of the mountain called hasthigiri, वस्तु = property, पैतामहं = earned by forefathers (brahma), धनम् = wealth , मे = for me, अस्ति = is there.
I have neither earned anything nor do I possess any ancestral wealth earned by my father. Yet, I have a great treasure which was earned by my forefathers, which is that Supreme entity residing at the top of the hastigiri – Lord Varadaraja.
I have only tried to give a very brief outline about वैराग्यपञ्चकम्. Pondering deeply on these slokas, one can unearth a wealth of knowledge. Life's lessons are best taught thro' brevity of expression.