Showing posts with label maagha. Show all posts
Showing posts with label maagha. Show all posts

श्लोकोऽयं मह्यं रोचते – 60

जि

जितरोषरया महाधियः सपदि क्रोधजितो लघुर्जनः ।

विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता॥ (16, 26)

jitaroñarayä mahädhiyaù sapadi krodhajito lagurjanaù

vijitena jitasya durmatermatimadbhiù saha kä virodhitä

पण्डितः स्वज्ञानेन अथवा पाण्डित्येन सर्वान् जयति। परन्तु गर्वेणालम्बितः मूर्खः प्रथमं स्वक्रोधेन जितः भवति परं रिपुणापि। एवं स्थितस्य मूर्खस्य मतिमद्भिः पण्डितैः सह का स्पर्धा भवेत्। मूर्खपण्डितयोः मैत्रीव स्पर्धापि न संगता इत्यर्थः ।

The above verse is from the 16th canto of mägha’s çiçupälavadham.

The plot of this mahäkävyam is taken from the sabhä parva of the epic mahäbhäratam.

The story of this kävyam is: Lord Krishna was given the prime respect during the räja süya yagnya performed by King yudhiñöra. çiçupäla, who was also present in the court, was unable to accept the way in which Lord Krishna was worshipped and regarded by the paandavas. So, He at the outburst of his anger started abusing çri kriñëa. Finally, Kriñëa, who was patiently listening to him, killed him with the sudarçana cakram.

In this canto, çiçupäla sent a messenger who spoke insulting words addressing lord Krishna. But çri kriñëa did not react for any situation.

At this context the poet mägha gives a general statement that “an intelligent person always controls his anger and wins over it. But a foolish man is always controlled by anger and is defeated by anger at every stage. Hence, it is impossible to even conceive a friendship or enmity between the learned and the ignorant.”

Poet mägha further says that not only friendship even enmity can never exist between Lord çri kriñëa and çiçupäla.

महाधियः- Intelligent or a great person, जितः - win, रोषरया- by anger (Great men faces the force of anger and win over it) , लघुर्जनः - an ignorant person , सपदि – immediately , क्रोधजितो- loses himself to anger, विजितेन- An ignorant who is won by anger , जितस्यदुर्मतेः –an ignorant who is a looser, मतिमद्भिः सह –with an intelligent person , का विरोधिता – where is the enmity?


An Epitome of virtue and an embodiment of vice can there ever be a meaningful conversation?

कविः – 8

माघः – 8
एकदा वृद्धो विद्वान् पृष्ठः - “कान् ग्रन्थान् पठित्वा एतादृशं ज्ञानं प्रप्यते भवता” इति । सोऽपि विद्वान् “मेघे माघे गतं वयः” इति प्रत्यवदत्। अर्थात् कालिदासस्य मेघदूतखण्डकाव्यं तथा माघस्य शिशुपालवधमहाकाव्यं च पठनेन तस्य सम्पूर्णवयः समाप्तम्। तस्य ज्ञानं च तावेव ग्रन्थौ पठित्वा वर्धितम्।
कालिदाससदृशं हि गण्यते माघः पण्डितैः। अस्ति च अपरा उक्तिः माघस्य प्रशस्तिप्रकटने।

उपमा कालिदासस्य भारवेरर्थगौरवम् ।
दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ।

कालिदासस्य उपमाप्रयोगे कौशलं, भारवेः अर्थगौरवं तथा कवेः दण्डिनः पदलालित्यं च इति एते त्रयः विद्यन्ते माघे इति श्लोकार्थः । ये अपरिमितागणितगुणाः कालिदासभारविदण्डिषु विद्यन्ते ते सर्वे गुणाः एकत्र सन्ति माघे।

कविकुलकमलदिवाकरमहाकविमाघस्य पितुः नाम दत्तकः आसीत्। पितामहस्य नाम सुप्रभदेवः तथा च अयं राज्ञः श्रीवर्मलस्य धर्मसचिवः आसीत् । महाकविमाघस्य जन्म गुजरातप्रदेशस्य ‘श्रीमाल’ इति नगरे अभवत्। महाकविमाघस्य स्वचरितकविवंशवर्णनात् एतत् हि ज्ञायते ।
अनेन कविना प्रणीतं शिशुपालवधं नाम महाकाव्यं महाभारतस्य सभापर्वताधारेण अस्ति। इदं विंशस्सर्गयुक्तं महाकाव्यम् । युधिष्ठिरेण कृते राजसूययज्ञे कस्य प्रथमपूजा कर्तव्या इति चर्चायां, सहदेवेन भगवतः श्रीकृष्णस्यैव प्रथमपूजा इति उच्यते । एतत् तु सर्वैः सभाङ्गनैः अङ्गीक्रियते। परन्तु तत्रत्यः शिशुपालः एतन्नाङ्गीकरोत्। सः शिशुपालः भगवन्तं श्रीकृष्णं निन्दितवान् । सभायामुपस्थिताः सर्वे ताः निन्दाः असहमानाः स्वीयान् अस्त्रान् स्वीकुर्वन्। एतान् सर्वान् दृष्ट्वा अन्ते भगवान् श्रीकृष्णः स्वयं शिशुपालं हन्ति।

Poet – 8
Maagha

SisuipAlavadha, the one among the mahakavyas, was written by the poet maagha. He was born in the city srimaala in Gujarat. He is the son of Dattaka and grandson of Suprabhadeva, who served as the minister in the court of the king sri Varmala. These are the details available on the life and ancestory of maagha.
The mahaakaavyam sisupaalavadha consists of twenty acts and the plot was taken from the ‘sabhaa parvata’ of ‘mahabhaarata’. During the Raajasooya sacrifice, king Yudhishtra and others decided to honour Lord Krishna first. But, Sisupaala disagreed and started abusing lord Krishna. At the end Lord Krishna killed Sisupaala with his weapon chakra. This is the story of the mahaakaavyam.

Here is a famous quote on Maagha -

उपमा कालिदासस्य भारवेरर्थगौरवम् ।
दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः॥

“Kalidasa is famous for his upama or similes, Bhaaravi for the word-meanings, Dandi rules with his usage of words in the poetry and Maagha has all the three virtues!”