यद्यत्संस्कृतसाहित्यविषये जानामि तत् लेखितुम् इदमेकं माध्यममिति मन्ये। अन्येऽपि लेखिष्यन्तीति आशासे।
कविः 12
कविः 11
अयं कविरेव पण्डितराजः इति विशेषेण प्रसिद्धः।पेरुभट्टाख्यस्य शास्त्रज्ञस्य पुत्रः श्रीजगन्नाथपण्डितः।अयं कविः भट्टोजिदीक्षित अप्पय्य दीक्षितयोः समकाले एव अवसत् इतिग्रन्थेभ्यः ज्ञातुं शक्यते। एष कविः दिल्लीनगरस्य राज्ञः शहजहानात् “पण्डितराज ” बिरुदः प्राप्तः।
अनेन कविना बहवः ग्रन्थाः विरचिताः। तेषु रसगङ्गाधरः दिङ्मात्रम् विज्ञेयः।
आलङ्कारिकाणाम् अलङ्कारः अयं ग्रन्थः। अप्पय दीक्षितेन विरचित
चित्रमीमांसायाः खण्डनरूपः “चित्रमीमांसा खण्डनम् ” इति ग्रन्थः।एवं भट्टोजि
दीक्षितेन विरचित मनोरामा खण्डन ग्रन्थः “मनोरमाकुचमर्दनम्”। सुधालहरी,
यमुनालहरी , अमृतलहरी, प्राणाभरणम् इत्यादयः ग्रन्था अपिअनेन कविना
लिखितः इति श्रूयते। कवेः अन्तिम कालः वाराणसी प्रदेशे एव असीत् इति
च श्रूयते॥
कविः 10
सप्तशतवर्षात्पूर्वम् काञ्चीपुरतुप्पुल् ग्रामे श्रीवेङ्कटनाथः समजनि ।
सः स्व प्रतिभया वेदन्तदेशिकः अभवत् । एकदा सः स्व गुरुणा मातुलेन अप्पुल्लालेन सह ‘ नडदूर् अम्माल् ’ इति नाम्ना प्रसिद्ध-आचार्यस्य उपन्यासार्थं जगाम। तत्र तेजस्विनं देशिकं दृष्ट्वा श्री अम्माल् –
“प्रतिष्ठापित वेदान्ताः प्रतिक्षिप्त - बहिर्मतः त्रैविद्यामान्यास्त्वम् भूरि कल्याण भाजनम् ” इति आशीः ददुः।
श्री देशिकः अष्टाविंशत्यधिक स्त्तोत्रग्रन्थान् , चतुर्दशवेदान्त ग्रन्थान्, द्वौ अनुष्ठानग्रन्थौ , चतुर्काव्यग्रन्थान् , अष्टव्याख्यानग्रन्थान् , द्वात्रिंशत् रहस्यग्रन्थान् , एकं नाटकं च संस्कृते अरचयत्। अनेन आचार्येण द्रविडभाषायामपि द्विचत्वारिंशत् ग्रन्थाः विरचिताः। विशिष्टाद्वैतसिद्धान्तः सर्वत्र प्रचारितः। अनेन विरचितं ‘हंस संदेशः’ इति महाकाव्यं कालिदासप्रणीतं मेघदूतमिव भवति। अत्र श्रीरामः सीतां प्रति हंसं प्रेषयति।
पादुकासहस्रम् इति काव्ये अष्टोत्तरसहस्र श्लोकाः सन्ति।द्वात्रिंशत् पद्धतिः अत्र विद्यन्ते।भगवतः पादुकयोः वर्णनं सर्वेषु श्लोकेषु दृश्यते। एवम् अयं ग्रन्थः एकस्यां रात्रौ एव श्रीदेशिकेन लिखितः । अस्य आचार्यस्य यादवाभ्युदयम्
(काव्यं ) , तत्वमुक्ताकलापः ,अधिकरणसारावली, शतदूषणी, चतुश्लोकीभाष्यं , श्रीमद्रहस्यत्रयसारम् , अडैक्कलपत्तु (द्रविडभाषायां) इति एते प्रसिद्धाः ग्रन्थाः। स्तोत्रेषु हयग्रीवस्तोत्रं , श्रीस्तुतिः , सुदर्शनाष्टकम् एवं दयाशतकं च सर्वैः अनुदिनं पठ्यन्ते।
श्रीसुदर्शनभट्टेन विरचितं श्रुतप्रकाशिकानाम श्रीभाष्यव्याख्यानं अचार्यवर्यैः श्रीवेदान्तदेशिकैरेव परिरक्षितं तथा प्रकाशितं च।
श्रीमद्वेदान्तदेशिकस्य पुत्रः स्व गुरोः श्रीमद्वेदान्तदेशिकमङ्गलाशासने - एवं वदति
श्रुतप्राकाशिका भूमौ येनासौ परिरक्षिता ।
प्रवर्तिता च पात्रेषु तस्मै श्रेष्ठाय मङ्गलम्॥
सांस्कृतीभिर्द्रामिडीभिः बह्वीभिः कृतिभिर्जनान्।
यस्समुज्जीवयामास तस्मै सेव्याय मङ्गलम्॥
एवम्
वेदे सञ्जात खेदे मुनिजन वचने प्राप्तनित्यावमाने
संकीर्णे सर्ववर्णे सति तदनुगुणे निष्प्रमाणे पुराणे।
मायावादे समोदे कलिकलुष वशाच्छून्यवदेऽविवादे
धर्मत्राणाय योऽभूत् स जयति भगवान् विष्णुघण्टावतारः॥
“विष्णोः घण्टावतारः एव श्रीवेदान्त देशिकः” इति गुरुम् अपि च पितरं विशेषयति
कुमारवरदार्यः।
cut and paste the link below to read about vedanta desika in english
http://en.wikipedia.org/wiki/Vedanta_Desika
कविः – 9
भासः
संस्कृतसाहित्ये कवेः भासस्य प्रशस्तिप्रकटने कालिदासादि कवीनां प्रशंसापूर्वकवचनान्येव साधु। अलमतिप्रसङ्गेन। कालिदासः स्वस्य मालवाग्निमित्रनाटकस्य प्रस्तावनायां कविभासमधिकृत्य एवं वर्णयति-
‘प्रथितयशसां भाससौमिल्लकविपुत्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां कथं परिषदोऽस्याः बहुमानः। ‘
अत्र वर्ण्यमाणानां भाससौमिल्लकविपुत्रादीनां त्रयाणां कवीनां मध्ये कविभासस्यैव प्रथमं स्थानं दत्तं कविश्रेष्ठैः कालिदासैः ।
‘बाणोच्छिष्टं जगत् सर्वमिति’ यशसा विख्यातेन बाणभट्टेन ‘हर्षचरितस्य’ प्रस्तावनायां भासविषये एवं आलिख्यते-
‘सूत्रधारकृतारम्भैः नाटकैर्बहुभूमिकैः ।
सपातकैर्यशो लेभे भासो देवकुलैरिव ॥ ‘
नानाप्रकारकथाभिः तथा बहुपात्रयुक्तानि नाटकानि कविभासैः विरचितानि इति अस्मात् श्लोकात् ज्ञायते। यद्यपि बहुभिः कविभिः भासस्य यशः प्रकटितं तथापि दौर्भाग्यवशात् एतादृशस्य महाकवेः जन्मादिविषये यु्क्तिपूर्वकविषयाः अनुपलब्धाः। भासः इति शब्दोऽपि तस्य गोत्रनाम एव न तु यथार्थनाम।
संस्कृतसाहित्ये भासकृतानि त्रयोदशनाटकानि प्रसिद्धानि वर्तन्ते। तानि च
स्वप्नवासवदत्तम् , प्रतिज्ञायौगन्धरायणम् , अविमारकम्, चारुदत्तम् , बालचरितम्, मध्यमव्यायोगम् , पञ्चरात्रम्, दूतवाक्यम् , दूतघटोत्कचम् , कर्णभारम् , ऊरुभङ्गम् , प्रतिमानाटकम्, अभिषेकनाटकम् ।
एतेषां नाटकानां संख्याः, मूलानि, अनन्तानि तथा विविधानि पात्रकल्पनानि च भासस्य विषये कालिदासबाणभट्टादीनां प्रशंसावाक्यानि समर्थयन्ति ।
Poet -9
Bhaasa
Bhaasa was a reputed dramatist of ancient India whose plays were popular even in the days of kaalidasa. High praise has been bestowed on him by kaalidasa in the introductory part of his drama maalavikaagnimitram - ‘प्रथितयशसां भाससौमिल्लकविपुत्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां कथं परिषदोऽस्याः बहुमानः। ‘ Of the three authors referred to in the above line (Bhaasa, soumilla and kaviputra) Bhaasa is given the first place.
Baanabhatta the famous author of kaadambarii, refers to bhaasa in the introduction of his srIharashacharitam –
‘सूत्रधारकृतारम्भैः नाटकैर्बहुभूमिकैः ।
सपातकैर्यशो लेभे भासो देवकुलैरिव ॥ ‘
The above reference says that bhaasa wrote many plays with a variety of characters and incidents.
It is really unfortunate that we do not know anything about the personal history of this great author. Even the word bhaasa does not appear to be his real name, but only his gotra name.
The following thirteen works were written by bhaasa-
Svapnavaasavadattam, Pratignya yougandharaayanam, Avimaarakam, chaarudattam, Baalacharitam, Madhyama vyaayogam, Pancharaatram, Doota vaakyam, Doota ghatotkacham, Karnabhaaram,Uru bhangam, Pratimaa naatakam and Abhisheka naatakam.
कविः – 8
एकदा वृद्धो विद्वान् पृष्ठः - “कान् ग्रन्थान् पठित्वा एतादृशं ज्ञानं प्रप्यते भवता” इति । सोऽपि विद्वान् “मेघे माघे गतं वयः” इति प्रत्यवदत्। अर्थात् कालिदासस्य मेघदूतखण्डकाव्यं तथा माघस्य शिशुपालवधमहाकाव्यं च पठनेन तस्य सम्पूर्णवयः समाप्तम्। तस्य ज्ञानं च तावेव ग्रन्थौ पठित्वा वर्धितम्।
कालिदाससदृशं हि गण्यते माघः पण्डितैः। अस्ति च अपरा उक्तिः माघस्य प्रशस्तिप्रकटने।
उपमा कालिदासस्य भारवेरर्थगौरवम् ।
दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ।
कालिदासस्य उपमाप्रयोगे कौशलं, भारवेः अर्थगौरवं तथा कवेः दण्डिनः पदलालित्यं च इति एते त्रयः विद्यन्ते माघे इति श्लोकार्थः । ये अपरिमितागणितगुणाः कालिदासभारविदण्डिषु विद्यन्ते ते सर्वे गुणाः एकत्र सन्ति माघे।
कविकुलकमलदिवाकरमहाकविमाघस्य पितुः नाम दत्तकः आसीत्। पितामहस्य नाम सुप्रभदेवः तथा च अयं राज्ञः श्रीवर्मलस्य धर्मसचिवः आसीत् । महाकविमाघस्य जन्म गुजरातप्रदेशस्य ‘श्रीमाल’ इति नगरे अभवत्। महाकविमाघस्य स्वचरितकविवंशवर्णनात् एतत् हि ज्ञायते ।
अनेन कविना प्रणीतं शिशुपालवधं नाम महाकाव्यं महाभारतस्य सभापर्वताधारेण अस्ति। इदं विंशस्सर्गयुक्तं महाकाव्यम् । युधिष्ठिरेण कृते राजसूययज्ञे कस्य प्रथमपूजा कर्तव्या इति चर्चायां, सहदेवेन भगवतः श्रीकृष्णस्यैव प्रथमपूजा इति उच्यते । एतत् तु सर्वैः सभाङ्गनैः अङ्गीक्रियते। परन्तु तत्रत्यः शिशुपालः एतन्नाङ्गीकरोत्। सः शिशुपालः भगवन्तं श्रीकृष्णं निन्दितवान् । सभायामुपस्थिताः सर्वे ताः निन्दाः असहमानाः स्वीयान् अस्त्रान् स्वीकुर्वन्। एतान् सर्वान् दृष्ट्वा अन्ते भगवान् श्रीकृष्णः स्वयं शिशुपालं हन्ति।
Poet – 8
Maagha
SisuipAlavadha, the one among the mahakavyas, was written by the poet maagha. He was born in the city srimaala in Gujarat. He is the son of Dattaka and grandson of Suprabhadeva, who served as the minister in the court of the king sri Varmala. These are the details available on the life and ancestory of maagha.
The mahaakaavyam sisupaalavadha consists of twenty acts and the plot was taken from the ‘sabhaa parvata’ of ‘mahabhaarata’. During the Raajasooya sacrifice, king Yudhishtra and others decided to honour Lord Krishna first. But, Sisupaala disagreed and started abusing lord Krishna. At the end Lord Krishna killed Sisupaala with his weapon chakra. This is the story of the mahaakaavyam.
Here is a famous quote on Maagha -
उपमा कालिदासस्य भारवेरर्थगौरवम् ।
दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः॥
“Kalidasa is famous for his upama or similes, Bhaaravi for the word-meanings, Dandi rules with his usage of words in the poetry and Maagha has all the three virtues!”
कविः – 7
संस्कृतसाहित्ये महाकविकालिदासस्यानन्तरं महाकवेः भारवेः द्वितीयं स्थानं वर्तते। अयं कविः दाक्षिणात्यब्राह्मणो आसीत्। महाकविदण्डिना रचित अवन्तिसुन्दरिकथानुसारेण अयं कविः दक्षिणस्य अचलपुरग्रामनिवासिनः पण्डितः नारायणस्वामिनः पुत्रः आसीत्। अस्यैव अन्यनाम दामोदरः तथा च अयं चालुक्यवंशस्य राजा विष्णुवर्धनस्य सभायामासीत् इत्यपि श्रूयते। कवेः भारवेः व्यक्तिगतजीवनस्य विषये एतदेव ज्ञायते।
भारविना रचितं किरातार्जुनीयम् महाकाव्येषु एकमस्ति। अष्टादशसर्गयुक्तस्य अस्य काव्यस्य कथावस्तु महाभारतस्य कथाधारेण भवति। अस्य काव्यस्य प्रतिसर्गस्य आरम्भं ‘श्री’ इति पदेन भवति, तथा च प्रतिसर्गस्य अन्तं ‘लक्ष्मी’ पदेन भवति।
अर्जुनः एव अस्य काव्यस्य नायकः भवति। कुरुक्षेत्रयुद्धात् पूर्वं अर्जुनः पाशुपतास्त्रार्थं शिवं ध्यात्वा तपः करोति। तदा भगवान् शिवः किरातरूपेण आगत्य अर्जुनं परीक्ष्य तं पाशुपतास्त्रं ददाति। अयमेव अस्य काव्यस्य सारांशः।
भारवेः शैल्यां शब्दप्रयोगाः कठिनाः परन्तु यदि विभज्य अर्थो ज्ञायते तर्हि अतिसरलः इव दृश्यते। तस्मादेव अस्य कवेः वचः नारिकेलफलसममिव विद्वांसः वदन्ति।
नारिकेलफलसन्निभं वचो भारवेः सपदि यद्विभज्यते।
स्वादयन्तु रसगर्भनिर्भरं सारमस्य यथेप्सितम्॥
Poet – 7
Bhaaravi
see the link below
http://en.wikipedia.org/wiki/Bharavi
poet- 6
कालिदासः
पञ्चमहाकाव्येषु द्वयोः महाकाव्ययोः रचयिता कालिदासः। क्व कालिदासस्य महिमा क्व च मे अल्पामतिः एतदपि तस्य उपमया एव वर्णयितुम् इच्छामि, ‘प्रांशुलभ्ये फले उद्बाहुः वामनः इव’ इति । तथापि श्रीवेदान्तदेशीकाचार्येण उक्तप्रकारं ‘अमृतं यदि लभ्यते किं न गृह्येत मानवैः’ इति कालिदासस्य कीर्तिं कि़ञ्चित् इव लिखितुम् इच्छामि।
यद्यपि कालिदासस्य जन्मादि विषये सप्रमाणयु्क्तयः न लब्धाः तथापि संस्कृतसाहित्ये सर्वाधिकप्रसिद्धिप्राप्तः महाकविः स एव। तस्य महाकवेः रचनासु रघुवंशः, कुमारसंभवश्च इति द्वे महाकाव्ये अपि च अभिज्ञानशाकुन्तलम्, विक्रमोर्वश्यम्, मालविकाग्निमित्रमिति त्रीणि नाटकानि तथा मेघदूतः ऋतुसंहारः च इति द्वे खण्डकाव्ये। तस्य अतिसरलशैलीयुक्तचनाः अस्मान् मोहयन्ति।
‘उपमा कालिदासस्य’ इति प्रसिद्धा सूक्तिः तस्य उपमा प्राशस्त्यं प्रकटयति। रघुवंशमहाकाव्ये ‘संचारिणी दीपशिखेव रात्रौ’ इति पद्ये तस्य उत्कृष्टोपमाकौशलेन विस्मितवन्तः पण्डिताः दीपशिखा कालिदासः इति विरुदेन तं सम्मानितवन्तः।
तस्य रघुवंशमहाकाव्यस्य मङ्गलश्लोके कविः पार्वतीपरमेश्वरौ स्तौति। श्लोकश्च यथा –
‘वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये। जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ’॥ देवी सरस्वती ज्ञानस्वरूपिणी, तां विहाय कालिदासः किमर्थं पार्वतीपरमेश्वरौ शब्दस्वरूपम् अर्थस्वरूपमिति वर्णयति?
उक्तञ्च वायवीयसंहितायाम् – ‘शब्दजातमशेषं तु दत्ते शर्वस्य वल्लभा । अर्थजातमशेषं तु दत्ते मुग्धेन्दुशेखरः’ ॥
तस्मात् शब्दाधिदेवता पार्वती तथा अर्थाधिपतिः परमेश्वरः इति कारणात् कविः कालिदासः वागर्थप्रतिपत्तये पार्वतीपरमेश्वरौ नमति। अनिर्वर्णनीयो हि तस्य वाक्विशेषः।
कालिदासस्य कीर्तयः श्रोतृणां कर्णेषु मधुनः धारां प्रवाहयति। तस्य वाग्विशेषेण तत्काव्यस्य नायकः नायिका च सजीवौ साकारौ एव अस्माकं पुरतः उपस्थितौ इव भवतः ।
अधरः किसलयरागः कोमलविटपानुकारिणौ बाहु।
कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम् ॥
इयमधिक मनोज्ञा वल्कलेनापि तन्वी ।
किमिव हि मधुराणां मण्डनं नाकृतीनाम्॥
इति दुष्यन्तमुखात् आगतं शकुन्तलायाः वर्णनं न केवलं तस्याः सौन्दर्यं द्योतयति किन्तु कविकालिदासस्य अनुपमवर्णनसामर्थ्यं तस्य सरला शैलीं वाङ्माधुर्यं च प्रकाशयति।
कालिदासस्य कवित्वगुणाः अवर्णनीयाः। तस्य स्वाभाविकी प्रतिभा अऩुपमा। प्रसादगुणगुम्फिता तस्य शैली अतिमधुरा उत्कृष्टा च। स एव भारतीयसंस्कृतेः प्रतिनिधिः। सः अप्रतिमः कविः अस्माकं भारतदेशम् अलङ्कृतवान् इति विषये न कोऽपि सन्देहः।
Poet - 6
kAlidAsa
Please see the link below to know about the poet kAlidAsa.
http://en.wikipedia.org/wiki/K%C4%81lid%C4%81sa
कविः –5
कविः शूद्रकः मृच्छकचिकम् इति प्रसिद्धनाटकस्य रचयिता। अस्य कवेः जन्मादि विषये सप्रमाणयुक्तयः न लब्धाः। मृच्छकटिकनाटकस्य प्रस्तावनाऽधारेण –शिवप्रसादेन अस्मै दृष्टिर्लब्धा, तथा च अयम् अश्वमेधयज्ञं चकार, दशादिकैशतवर्षम् उषित्वा स्वपुत्राय राज्यं दत्वा स्वर्गलोकं जगाम।
ऋग्वेदं सामवेदं गणितमथ कलां वैशिकीं हस्तिशिक्षां
ज्ञात्वा शर्वप्रसादाद्व्यपगततिमिरे चक्षुषी चोपलभ्य ।
राजानं वीक्ष्य पुत्रं परमसमुदयेनाश्वमेधेन चेष्ट्वा
लब्ध्वा चायुः शताब्दं दशदिनसहितं शूद्रकोऽग्निं प्रविष्टः ।।
अस्यैव नाटकस्य प्रस्तावनायाः तृतीयश्लोके अयं ‘द्विजमुख्यतमः कविर्बभूव प्रथितः शूद्रक इत्यगाधसत्तवः इति दत्तमस्ति। पुनः पञ्चमश्लोके ‘क्षितिपालः किल शूद्रको बभूव’ इति पठ्यते। अतः शूद्रको नाम कश्चित् राजा सः एव कविरपि आसीत् इत्येव अस्माभिः कथ्यते किन्तु तस्य जन्मादि विषये न किमपि निर्णीयते।
Poet -5
ShUdraka
It has been the fate of almost all Sanskrit authors to remain completely hidden as far as their personal history is concerned. Among them sUdraka, the author of the drama mrchchakatikam, had the worse fate than most of the Sanskrit dramatists. At least we know that the drama sAkuntalam was written by an author, whose real or assumed name was kAlidAsa. But with respect to the drama mrchchakatikam – the authorship of the drama is still undecided.
The particulars given about his personal history in the prelude of the drama, that he recovered his eye sight through the blessings of lord siva, he performed the Ashvamedha sacrifice, he attained the age of a hundred years and ten days, and that having set his son on the throne he ascended the funeral pyre.
ऋग्वेदं सामवेदं गणितमथ कलां वैशिकीं हस्तिशिक्षां
ज्ञात्वा शर्वप्रसादाद्व्यपगततिमिरे चक्षुषी चोपलभ्य ।
राजानं वीक्ष्य पुत्रं परमसमुदयेनाश्वमेधेन चेष्ट्वा
लब्ध्वा चायुः शताब्दं दशदिनसहितं शूद्रकोऽग्निं प्रविष्टः ।।
The third and fifth verse of the prelude proove that sUdraka was a king and he was the best among the kshatriyas. द्विजमुख्यतमः कविर्बभूव प्रथितः शूद्रक इत्यगाधसत्वः । क्षितिपालः किल शूद्रको बभूव।
Therefore, the conclusion that we can draw from these verses is that sUdraka was a king and was also a poet.
This work ‘mrchchakatikam’ is highly commendable and I should say it is one of the best dramas in Sanskrit. The art of thieving, the art of gambling are very well described by the author.
The drama ‘mrchchakatikam’ was taken as a movie in hindi and the name of the movie is ‘Utsav’.
कविः – 4
श्रीहर्षः
‘सद्यः परनिर्वृत्तये कान्तासम्मिततयोपदेशयुजे’ इति काव्यस्य ख्यातिः अस्ति। काव्येषु पञ्चमहाकाव्यानि प्रसिद्धानि। तादृश पञ्चमहाकाव्येषु एकतमस्य नैषधीयचरितस्य प्रणेता श्रीहर्षः अस्ति। सः कविः श्रीहीरपण्डितान्मामल्लदेव्यां समजनीति तस्य काव्यस्य प्रतिसर्गस्य समाप्तिश्लोकतः ज्ञायते।
अत्र हि श्लोकः -
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।
तच्चिन्तामणिमन्त्रचिन्तनफले श्रृङ्गारभङ्ग्या महा-
काव्ये चारुणि नैषधीयचरिते सर्गोऽयमादिर्गतः ।।
आसीत् काश्यां राजा जयन्तचन्द्रो नाम। तस्य च राज्ञः सदसि बहवः विद्वांसः बभूवुः। तत्रैको हीरनामा विप्रः। तस्य नन्दनः प्राज्ञचक्रवर्ती श्रीहर्षः।
यदा श्रीहर्षः बालावस्थायाम् आसीत् तदा एकस्मिन् दिने राजसभायां पण्डितेन एकेन वादे हीरः जितः। तदनन्तरं हीरः दुःखे मग्नोऽभूत्। सः हीरः मृत्युकाले पुत्रं हर्षमाहूय – ‘नृपसदसि जितोऽहं पण्डितेन। तन्मे दुःखम्। यदि त्वं सत्पुत्रोऽसि, तर्हि भूमिपालसदसि तं वादिनं जयेः’ इत्युक्त्वा दिवं गतः।
श्रीहर्षः विविधाचार्येषु अलंकारगीतगणितज्यौतिषव्याकरणचूडामणिमन्त्रादि सर्वाः विद्याः प्रजग्राह। गङ्गातीरे सुगुरुदत्तं चिन्तामणिमन्त्रं साधयामास। तदा साक्षात् भारती प्रत्यक्षाऽभूत्। अमोघादेशवराप्तिः अभूत्। तेन हर्षेण यत् उच्यते तत् अन्यैः केवलं श्रूयते परन्तु न किमप्यवगम्यते। ततः अतिविद्ययाऽपि लोकागोचरतया पुनः भारती उपास्यते कविना। भारत्योपदिष्टः सः आर्द्रशिरसि दधि पपौ, कफांशावतरात् सः लेशं जडताम् प्राप्नोत्, तथा च, बोध्यवागासीत्।
तदनन्तरं, वादे पितृवैरिणं वादिनं जित्वा, पितृवाक्यं परिपाल्य, द्वाविंशतिसर्गयुक्तं नैषधीयचरितं च विरचय्य राज्ञे दर्शितम्।हर्षितो राजा तस्मै सम्मानं प्रयच्छत्।
पञ्चमहाकाव्येषु नैषधीयचरितस्यार्थावगमनं दुष्करमस्ति, लेशजडस्थित्यामेवास्य कवेः कठिनप्रयोगाः, किं पुनः संपूर्णज्ञाने ?
Poet -4
srI harsha
SrI Harsha is the author of NaishadIya charitam, the one among the pancha mahAkavyam in Sanskrit. At the end of every canto he mentions about his father hIra, a great scholar and his mother mAmalla devI.
The sloka reads-
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।
तच्चिन्तामणिमन्त्रचिन्तनफले श्रृङ्गारभङ्ग्या महा-
काव्ये चारुणि नैषधीयचरिते सर्गोऽयमादिर्गतः ।।
śrīharṣaṁ kavi-rāja-rāji-mukuṭālaṅkāra-hīraḥ sutaṁ
śrīhīraḥ suṣuve jitendriyacayaṁ māmalladevī ca yam
taccintāmaṇi-mantra-cintana-phale śṛṅgārabhaṅgyā mahā-
kāvye cāruṇi naiṣadīyacarite sargo'yamādirgataḥ
There was a king by name Jayachandra in
Having promised his father srI harsha learnt not only the sAstras under many teachers, but he also learnt the cintAmaNi mantra and mastered the mantra in a year and acquired high knowledge, by which people were unable to understand what he said. So, as advised by goddess saraswatI, during
An average reader would find it difficult to comprehend even the current work in one reading, then one could very well imagine………. If he had continued writing in the original style.
कविः -3
श्री नीलकण्ठदीक्षितः सप्तादश शतके (century) अवसत्। सः मधुरापुरी (Madurai) राज्यस्य राज्ञः ‘तिरुमलै नायकस्य’ प्रधानमन्त्रिः आसीत्। सः श्री अप्पयदीक्षितस्य परम्परायाम् आगतः। बाल्यादेव बहुभ्यः गुरुभ्यः अध्ययनात् तस्य प्रतिभा वर्धिता।
श्री नीलकण्ठदिक्षितः ‘शिवलीलार्णवः’ तथा च ‘गङ्गावतारणम्’ इति द्वौ ग्रन्थौ अरचयत्। शिवलीलार्णवे शिवस्य मधुरापुरी नगरप्रसङ्गम् अवर्णयत् कविः, तथा च गङ्गावतारणे, राजकुमारस्य भगीरथस्य प्रयत्नेन, भूलोके गङ्गायाः आनयनम् च अवर्णयत्।
‘नीलकण्ठविजयचम्पू’ इति गद्यपद्यात्मकरूपं काव्यमपि अरचयत् सः। अस्मिन् ग्रन्थे सुराऽसुराणाम् अमृतमथनप्रसङ्गं तथा च लोकरक्षणाय शिवस्य हलाहलविषस्वीकरणघट्टं च अवर्णयत्। तस्य ‘आनन्दसागरस्तवं’ तथा च ' शिवोत्कर्षमञ्जरी ' इति द्वावपि भक्तिप्रतिपादनग्रन्थौ स्तः।
‘कलिविडम्बनम्’, ‘शान्तिविलासः’ तथा च ‘सभारञ्जनशतकमिति’ त्रिषु ग्रन्थेषु, समाजे ये दुराचाराः वर्तन्ते, कथं जनाः पण्डितनाम्ना अपण्डितैः वञ्चिताः भवन्ति इति विषयान् स्वीकृत्य, हास्य तथा मनोरञ्जकश्लोकैः कविना लिख्यते। संस्कृतसाहित्ये अयमेव कविः प्रथमम् एतेषु विषयेषु अलिखत् इति यशोऽपि प्राप्यते कविना।
Poet – 3
srI nIlakanta DIkshita
SrI nIlakaNta DIkshita belonged to the 17th century and cannot be considered as a poet of remote past from the Indian standard of antiquity.
srI nIlakanta DIkshita was the court poet as well as the chief minister of king Tirumala nAyaka who ruled madurai during the 17th century A.D. He hails from a family of scholars and the great poet and philosopher- SrI apapaya dIkshita is his ancestor. SrI nIlakantha had good education under several noble preceptors, which enabled him to shine as a good scholar and poet.
He has written two major works. They are the siva lIlArNava and GangAvatAraNa. The first book describes the episodes of siva at madurai and the latter one depicts the story of the celestial ganges coming to the earth through the continuous effort of prince Bhageeratha.
In another work ‘nIlakantha vijaya champu’ – which is a blend of prose and poetry, the poet describes the churning of milky ocean by divines and demons and lord siva consuming the hAlahAla poison, in order to save the universe.
The book 'Ananda sAgara stava' has verses on praise of the goddess meenAkshi and 'sivotkarsa manjari' which extols the greatness of lord siva are the devotional works of the poet.
'Kalividambanam', 'sAnti vilAsam' and 'sabhAranjan satakam' are some of his minor works of didactic character. The 'kalividambanam' and 'sabhAranjana satakam' each consisting of hundred slokas were the two earliest poems portraying the social evils. It was nIlakanta dIkshita who first attempted on these topics in a satirical way.
कविः -2
‘भर्तृहरिणा कृतं शतकत्रयं मानवजीवनस्य मार्गदर्शकः’ इति लोकोक्तिः अस्ति। तेन कृत ग्रन्थः प्रसिद्धिं अलभत, परन्तु तस्य जीवनविषये सप्रमाणयुक्तिः न लब्धा। भर्तृहरिः जन्मना राजवंशीयः, तथापि सः राज्यभोगान् त्यक्त्वा वनम् अगच्छत्, यत्र सः नीतिशतकम्, श्रृङ्गारशतकम्, वैराग्यशतकम् इति त्रीन् ग्रन्थान् अरचयत्।
शीर्षकस्य समर्थनानुसारेणैव नीतिशतके नैतिक अथवा धर्मप्रतिपादनविषयाः उक्ताः, तथा च
श्रृङ्गारशतके विषयसुखम् अधिकृत्य लिखितं कविना।
मोक्षप्राप्तिरेव मानुषजन्मनः प्रयोजनम्। संसारे विरक्तिः, ईश्वरे अनुरक्तिः, ततः ब्रह्मणि अनुध्यानेन परमं पदं लभ्यते। संसारस्य अनित्यत्वं तथा आत्मनः अमृतत्वं च रमणीयश्लोकेषु वर्णितं कविना।
Poet -2
Bhartrhari
It is very difficult to settle the dates of ancient writers generally and it is specially so with the Indian writers. The date of birth and the date of death of great poets like kalidAsa, BhavabhUti, SrIharshA etc. were not recorded in books. It is the same with the poet Bhartrhari, whose date and time are still under dispute.
Tradition weaves plenty of stories round an old, reputed personage, and the tales may be based on fact or fancy. Bhartrhari belonged to a royal family and renounced the world later on in life to become a yogi. He then retired to the forest where he is said to have composed the three satakams. They are the nIti satakam, sringAra satakam and vairAgya satakam. Satakam means hundred. So, there are hundred slokas in each text.
Among the works of the poet, nIti satakam is the collection of wise sayings, morals etc.
In the ‘mUrkha paddhati’ of nIti satakam, the poet says- ‘Those who have knowledge are affected by jealousy, those who hold high position are spoiled by arrogance, and the rest are overpowered by ignorance. Therefore, the good sayings said in this work remain absorbed in the body of its possessor. Even if there is no one to appreciate, my work will continue.
बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः।
अबोधोपहृताश्चान्ये जीर्णमङ्गे सुभाषितम्।।
boddhāraḥ matsaragrastāḥ prabhavaḥ smayadūṣitāḥ
abodhopahatāścānye jīrṇamaṅge subhāṣitam
The verses of sringara satakam are generally sensual. The effect of moon-light, cool breezes etc. on the minds of lovers are well depicted.
The vairaagya satakam or the hundred slokas of renunciation. They are written with the full enthusiasm and determination of an ascetic who has renounced the world.
Personally I feel, a student of Sanskrit must read two books. One is Adi sankara’s ‘Bhaja Govindam’ and undoubtedly the second one is Bhartrhari’s ‘vairAgya satakam’.
कविः -1
मूककविः मूकपञ्चशती इति ग्रन्थस्य रचयिता। अस्य कवेः जन्मादि विषये युक्तिपूर्वकाः विषयाः न लब्धाः। कश्चित् मूकः काञ्चीपुरे कामाक्षीं ववन्दे। एकदा देव्याः कामाक्ष्याः अनुग्रहेण सः वक्तुम् आरभत। ततः, देव्याः नमस्काररूपेण मूकपञ्चशती इति पञ्चशतं श्लोकयुक्तम् इदं ग्रन्थम् अरचयत् सः कविः। सः प्रथमं मूकः आसीत् तस्मात् तेन नाम्ना एव प्रसिद्धिम् अलभत।
अयमेव मूककविः काञ्चीकामकोटिपीठाचार्येषु एकः आसीत्। सः मूकशङ्करः इति नाम्ना अपि प्रकीर्तितः। तस्य आचार्यपीठारोहणं 398 A.D. मध्ये आसीत्। ततः 437 A.D. मध्ये सः शिवलोकपदवीम् अलभत इति तस्य जीवनविषये अभिप्रायो वर्तते।
तेन कृत मूकपञ्चशती ग्रन्थे पञ्च भागाः सन्ति, तथा च प्रति भागे शतश्लोकाः वर्तन्ते। ते भागाः आर्याशतकम्, पादारविन्दशतकम्, मन्दस्मितशतकम्, कटाक्षशतकम्, स्तुतिशतकम् च। प्रतिभागस्य वर्तमानानां श्लोकानां वृत्तानि भिन्नानि भवन्ति। अस्मिन् ग्रन्थे, कामाक्षीम्, एकाम्रनाथं, कामकोटिपीठं, काञ्चीपुरं तथा कम्पानदीं च अवर्णयत् कविः।
Poet -1
Mooka Kavi
Our ancients gave less prominence in mentioning about their biographical background. Reason could be the humility that those great men had of themselves. But still, we are eager to know the origin and lineage of those great men. ‘Mooka kavi’ is one among them who has not mentioned anything about his own self in his work. He is second only to Adi Sankara in composing slokas on the goddess kAmAkshI.
There are no authentic proof available on the date and life of ‘Mooka kavi’. There lived a man in kAnchIpuram, who was speech impaired from birth. He was regularly visiting ‘kAmAkshi’ temple and was prostrating before the goddess. One day He saw the lips of the goddess and after that he started to speak and wrote a work called ‘mooka pancha sati’ or five hundred slokas in praise of the goddess. The word ‘mooka’ means ‘a person who cannot speak’ in Sanskrit, hence his name remained as ‘mooka kavi’.
This ‘mooka kavi’ was one of the AchAryAs of the kAnchI kAmakotI peetam and was called as mooka sankara. The date of his becoming the AchArya is approximately stated as 398 A.D. and he attained siddhi at 437 A.D.
His work ‘mooka panca sati’ has five sections; they are, AryA satakam, pAdAravinda satakam, manda smita satakam, katAksha satakam and stuti satakam. Each section consists of hundred slokas. The metre or the vrittam in which these slokas were written is different in each section. In this text, the poet describes goddess kAmAkshi, kAmakoti peetam, EkamranAtha, kAnchIpuram and the river kampA. Some Slokas have similarity with the text ‘soundarya laharI’ of Adi Sankara.