कविः – 9

भासः

संस्कृतसाहित्ये कवेः भासस्य प्रशस्तिप्रकटने कालिदासादि कवीनां प्रशंसापूर्वकवचनान्येव साधु। अलमतिप्रसङ्गेन। कालिदासः स्वस्य मालवाग्निमित्रनाटकस्य प्रस्तावनायां कविभासमधिकृत्य एवं वर्णयति-

प्रथितयशसां भाससौमिल्लकविपुत्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां कथं परिषदोऽस्याः बहुमानः।

अत्र वर्ण्यमाणानां भाससौमिल्लकविपुत्रादीनां त्रयाणां कवीनां मध्ये कविभासस्यैव प्रथमं स्थानं दत्तं कविश्रेष्ठैः कालिदासैः ।

बाणोच्छिष्टं जगत् सर्वमिति यशसा विख्यातेन बाणभट्टेन हर्षचरितस्य प्रस्तावनायां भासविषये एवं आलिख्यते-

सूत्रधारकृतारम्भैः नाटकैर्बहुभूमिकैः ।

सपातकैर्यशो लेभे भासो देवकुलैरिव ॥

नानाप्रकारकथाभिः तथा बहुपात्रयुक्तानि नाटकानि कविभासैः विरचितानि इति अस्मात् श्लोकात् ज्ञायते। यद्यपि बहुभिः कविभिः भासस्य यशः प्रकटितं तथापि दौर्भाग्यवशात् एतादृशस्य महाकवेः जन्मादिविषये यु्क्तिपूर्वकविषयाः अनुपलब्धाः। भासः इति शब्दोऽपि तस्य गोत्रनाम एव न तु यथार्थनाम।

संस्कृतसाहित्ये भासकृतानि त्रयोदशनाटकानि प्रसिद्धानि वर्तन्ते। तानि च

स्वप्नवासवदत्तम् , प्रतिज्ञायौगन्धरायणम् , अविमारकम्, चारुदत्तम् , बालचरितम्, मध्यमव्यायोगम् , पञ्चरात्रम्, दूतवाक्यम् , दूतघटोत्कचम् , कर्णभारम् , ऊरुभङ्गम् , प्रतिमानाटकम्, अभिषेकनाटकम् ।

एतेषां नाटकानां संख्याः, मूलानि, अनन्तानि तथा विविधानि पात्रकल्पनानि च भासस्य विषये कालिदासबाणभट्टादीनां प्रशंसावाक्यानि समर्थयन्ति ।

Poet -9

Bhaasa

Bhaasa was a reputed dramatist of ancient India whose plays were popular even in the days of kaalidasa. High praise has been bestowed on him by kaalidasa in the introductory part of his drama maalavikaagnimitram - प्रथितयशसां भाससौमिल्लकविपुत्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां कथं परिषदोऽस्याः बहुमानः। ‘ Of the three authors referred to in the above line (Bhaasa, soumilla and kaviputra) Bhaasa is given the first place.

Baanabhatta the famous author of kaadambarii, refers to bhaasa in the introduction of his srIharashacharitam –

सूत्रधारकृतारम्भैः नाटकैर्बहुभूमिकैः ।

सपातकैर्यशो लेभे भासो देवकुलैरिव ॥

The above reference says that bhaasa wrote many plays with a variety of characters and incidents.

It is really unfortunate that we do not know anything about the personal history of this great author. Even the word bhaasa does not appear to be his real name, but only his gotra name.

The following thirteen works were written by bhaasa-

Svapnavaasavadattam, Pratignya yougandharaayanam, Avimaarakam, chaarudattam, Baalacharitam, Madhyama vyaayogam, Pancharaatram, Doota vaakyam, Doota ghatotkacham, Karnabhaaram,Uru bhangam, Pratimaa naatakam and Abhisheka naatakam.

No comments: