poet- 6

कविः - 6
कालिदासः
पञ्चमहाकाव्येषु द्वयोः महाकाव्ययोः रचयिता कालिदासः। क्व कालिदासस्य महिमा क्व च मे अल्पामतिः एतदपि तस्य उपमया एव वर्णयितुम् इच्छामि, ‘प्रांशुलभ्ये फले उद्बाहुः वामनः इव’ इति । तथापि श्रीवेदान्तदेशीकाचार्येण उक्तप्रकारं ‘अमृतं यदि लभ्यते किं न गृह्येत मानवैः’ इति कालिदासस्य कीर्तिं कि़ञ्चित् इव लिखितुम् इच्छामि।
यद्यपि कालिदासस्य जन्मादि विषये सप्रमाणयु्क्तयः न लब्धाः तथापि संस्कृतसाहित्ये सर्वाधिकप्रसिद्धिप्राप्तः महाकविः स एव। तस्य महाकवेः रचनासु रघुवंशः, कुमारसंभवश्च इति द्वे महाकाव्ये अपि च अभिज्ञानशाकुन्तलम्, विक्रमोर्वश्यम्, मालविकाग्निमित्रमिति त्रीणि नाटकानि तथा मेघदूतः ऋतुसंहारः च इति द्वे खण्डकाव्ये। तस्य अतिसरलशैलीयुक्तचनाः अस्मान् मोहयन्ति।
‘उपमा कालिदासस्य’ इति प्रसिद्धा सूक्तिः तस्य उपमा प्राशस्त्यं प्रकटयति। रघुवंशमहाकाव्ये ‘संचारिणी दीपशिखेव रात्रौ’ इति पद्ये तस्य उत्कृष्टोपमाकौशलेन विस्मितवन्तः पण्डिताः दीपशिखा कालिदासः इति विरुदेन तं सम्मानितवन्तः।
तस्य रघुवंशमहाकाव्यस्य मङ्गलश्लोके कविः पार्वतीपरमेश्वरौ स्तौति। श्लोकश्च यथा –
‘वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये। जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ’॥ देवी सरस्वती ज्ञानस्वरूपिणी, तां विहाय कालिदासः किमर्थं पार्वतीपरमेश्वरौ शब्दस्वरूपम् अर्थस्वरूपमिति वर्णयति?
उक्तञ्च वायवीयसंहितायाम् – ‘शब्दजातमशेषं तु दत्ते शर्वस्य वल्लभा । अर्थजातमशेषं तु दत्ते मुग्धेन्दुशेखरः’ ॥
तस्मात् शब्दाधिदेवता पार्वती तथा अर्थाधिपतिः परमेश्वरः इति कारणात् कविः कालिदासः वागर्थप्रतिपत्तये पार्वतीपरमेश्वरौ नमति। अनिर्वर्णनीयो हि तस्य वाक्विशेषः।

कालिदासस्य कीर्तयः श्रोतृणां कर्णेषु मधुनः धारां प्रवाहयति। तस्य वाग्विशेषेण तत्काव्यस्य नायकः नायिका च सजीवौ साकारौ एव अस्माकं पुरतः उपस्थितौ इव भवतः ।
अधरः किसलयरागः कोमलविटपानुकारिणौ बाहु।
कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम् ॥
इयमधिक मनोज्ञा वल्कलेनापि तन्वी ।
किमिव हि मधुराणां मण्डनं नाकृतीनाम्॥

इति दुष्यन्तमुखात् आगतं शकुन्तलायाः वर्णनं न केवलं तस्याः सौन्दर्यं द्योतयति किन्तु कविकालिदासस्य अनुपमवर्णनसामर्थ्यं तस्य सरला शैलीं वाङ्माधुर्यं च प्रकाशयति।

कालिदासस्य कवित्वगुणाः अवर्णनीयाः। तस्य स्वाभाविकी प्रतिभा अऩुपमा। प्रसादगुणगुम्फिता तस्य शैली अतिमधुरा उत्कृष्टा च। स एव भारतीयसंस्कृतेः प्रतिनिधिः। सः अप्रतिमः कविः अस्माकं भारतदेशम् अलङ्कृतवान् इति विषये न कोऽपि सन्देहः।

Poet - 6
kAlidAsa

Please see the link below to know about the poet kAlidAsa.

http://en.wikipedia.org/wiki/K%C4%81lid%C4%81sa

No comments: