श्लोकोऽयं मह्यं रोचते – 29

क्ष
क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्रायोऽपि कष्टां दशा-
मापऩ्नोऽपि विपन्नदीधितिरपि प्राणेषु ऩश्यत्स्वपि ।
मत्तेभेन्द्रविभिन्नकुम्भपिशितग्रासैकबद्धस्पृहः
किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी ।। ( नीतिशतकम् -21 )

kṣutkṣāmo'pi jarākṛśo'pi śithilaprāyo'pi kaṣṭāṁ daśām
āpanno'pi vipannadīdhitirapi prāṇeṣu naśyatsvapi|
mattebha-indra-vibhinna-kumbha-piśita-grāsaika-baddha-spṛhaḥ
kiṁ jīrṇaṁ tṛṇamatti mānamahatām agresaraḥ kesarī|| (nītiśatakam - 21)

क्षुधा क्षीणोऽपि, जरया कृशोऽपि, बलहीनोऽपि, आहारेण विना कष्टाम् अवस्थां प्राप्तोऽपि, नष्टकान्तिरपि, प्राणेषु नश्यत्स्वपि, मत्तगजपुंगवस्य कुम्भस्थलात् पिशिते मांसे एव सिंहस्य वाञ्छा अस्ति। तस्मिन् अवसरे अपि सः सिंहः न जीर्णं तृणं खादति। अभिमानोन्नतानां बुद्धिः न नीचवस्तूनि प्रवर्तते। प्राणात् मानमेव रक्षन्ति ते।

The above verse is from Bhartrhari’s nIti satakam .

Though a lion is emaciated by starvation, and reduced by old age, though it is almost completely enfeebled, though reduced to a wretched condition, though it has lost its bodily luster and it is about to die- still the leader of the jungle will have its longing fixed on the flesh from the broken forehead of a maddened elephant. Will it ever taste the dry grass?

क्षुत्क्षामोऽपि – emaciated because of hunger, जराकृशोऽपि – thin because of old, शिथिलप्रायोऽपि – though very weak, कष्टां – difficult , दशाम्- condition, आपन्नोऽपि- attained, विपऩ्नदिधितिरपि – lost its bodily luster, ऩश्यत्स्वपि – about to lose its, प्राणेषु – life,
(even at this condition) ग्रासैकबद्धस्पृहः- he has an attraction towards the , मत्तेभेन्द्रविभिन्नकुम्भपिशित – flesh broken from the forehead of a maddened elephant.
केसरी – lion, मानमहतामग्रेसरः - rich or great in pride, किं जीर्णं तृणमत्ति – will it eat the dry grass?

Here the poet beautifully explains with an example of the lion to put forward his view- People who are rich or great in pride will never degrade themselves even at the time of calamity. For them pride is important than life.

4 comments:

L N Srinivasakrishnan said...

भवत्याः विद्वद्परिश्रमं सुष्ठु विजानामि। अनुगृहीतो'स्मि यत्कार्यस्थले संस्कृतवाङ्मयमुक्तकानि प्रतिदिवसं पठितुं शक्नोमि।

श्लोको'यं नीतिशतके 29 (न तु 21) इति मन्ये। "शिथिलप्राणो'पि" इत्ययं पाठः वरमस्तीति अपि मन्ये। "विपन्नदीधितिरपि" इति भवितुमर्हति।

Visalakshi said...

"शिथिलप्राणः" तथा "प्राणेषु नश्यत्सु" इत्युभयोरपि निवेशे आवृत्तिभयात्, शिथिलप्रायः वरमिति मन्ये।
शिथिलप्रायः - almost weak

P.R.Gayathri said...

मया उपयुक्ते चौखम्बा संस्कृतसंस्थानस्य पुस्तके अयं श्लोकः मानशौर्यपद्धतेः प्रथमः श्लोकः एव। अस्य संख्या 21 इत्यैव दत्तमस्ति।

Chitra said...

seems i have found heaven. people conversing in Sanskrit. Thank you for having such a wonderful blog. I hope my language will improve too and i will be able to post in Sanskrit soon.