वैराग्यशतकम् आशा - 5

वलीभिः मुखमाक्रान्तं पलितेन अङ्कितं शिरः।
गात्राणि शिथिलायन्ते तृष्णा एका तरुणायते।।

valībhiḥ mukhamākrāntaṁ palitena aṅkitaṁ śiraḥ|
gātrāṇi śithilāyante tṛṣṇaikā taruṇāyate||

जरया मुखं तु वैरूप्यं प्राप्तम्। केशादयः धवला जाता। गात्राणि तु शिथिलानि अभवन्। जरया प्रतिक्षणं सर्वाणि अङ्गानि क्षीयन्ते परन्तु तृष्णा एका तु बलिष्ठा भवति तथा वर्धते च।

The face is fully covered with wrinkles, the hair is completely grey, the limbs became weak. Body is ageing but there seems to be no abating of desire.

मुखम् – Face ; आक्रान्तम् – attacked ; वलीभिः– wrinkles; शिरः – head ; पलितेन – grey hair ; अङ्कितं – painted ; गात्राणि – limbs ; शिथिलायन्ते – weak; तृष्णा – desire ; एका – only one ; तरुणायते – young or rejuvenating.

1 comment:

Aravind said...

अयं भजगोविन्दे अङ्गं गलितम्.... स्मारयति