श्लोकोऽयं मह्यं रोचते - 4

अ -
अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखम्।
निदानमिक्ष्वाकुकुलस्य सन्ततेः सुदक्षिणा दौहृदलक्षणा दधौ॥ रघुवंशः 3-1॥

athepsitaṁ bharturupasthitodayaṁ sakhījanodvīkṣaṇakaumudīmukham|
nidānamikṣvākukulasya santateḥ sudakṣiṇā daurhṛdalakṣaṇā dadhau|| raghuvaṁśaḥ 3-1 ||

दौहृदलक्षणा सुदक्षिणा, भर्तुः ईप्सितम् उपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखम् इक्ष्वाकुकुलस्य सन्ततेः निदानं दधौ।

वस्तुतः सरलोऽयं श्लोकः - बहुवर्षेभ्यः सुदक्षिणादिलीपयोः पुत्रः न आसीत्। वसिष्ठमहर्षेः उपदेशात् कामधेनोः पुत्रीं नन्दिनीं तस्याः वत्सं च पालयित्वा, तयोः अनुग्रहेण सुदक्षिणा गर्भवती अभवत्। अस्मिन् सर्गे तस्याः दौहृदलक्षणां वर्णयति कविः।

This sloka is very dear to me because my grandfather would always ask me to recite the set of 10/12 slokas which describe the pregnant sudakshiNa. He did not know samskrutam but had a lovely voice and sang wonderfully without formal training. Apparently his teacher who taught Raghuvamsa at school would ask him to recite this. The tune he used to recite was a very beautiful one.

No comments: