श्लोकोऽयं मह्यं रोचते – 1

गतोऽपि वयसि ग्राह्या विद्या सर्वात्मना बुधैः ।
यद्यपि न स्यात् फलदा सुलभा सा अन्यजन्मनि ।।

gato'pi vayasi grāhyā vidyā sarvātmanā budhaiḥ|
yadyapi na syāt phaladā sulabhā sā anyajanmani||

वृद्धावस्थायामपि पठनम् अथवा नूतनविषयग्रहणं कर्तव्यम् एव । पठने अथवा विद्याभ्यासे का प्रयोजना ? परीक्षा तु न लेखनीया अतः किमर्थं पठनम् इति मा चिन्तय। अधुना ज्ञानेन प्रयोजनं न स्यात् परन्तु जन्मान्तरे उपयुज्यते।
‘शरीरस्यैव नाशः न तु आत्मनः, तस्मात् आत्मने पुनर्जन्म अस्ति’ इति अस्माकं सनातनधर्मे उक्तम् । सहस्रवर्षेभ्यानन्तरं यदि मानुषजन्म लभ्यते, तर्हि, तदा इदमेव ज्ञानं भाति। अद्यतनकाले वयं बालावस्थायां ज्ञानवृद्धान् (child prodigy) पश्यन्ती स्मः। तत् जन्मान्तरवासना बलेन एव इति न कोऽपि सन्देहः। तस्मात् सर्वैः वयसि गतोपि विद्या ग्राह्या ।

Irrespective of one’s age one should never stop learning. Even if that knowledge is not useful in current birth it would be useful in the subsequent ones.

No comments: