वैयाकरणाः - तार्किकाः

‘ये व्याकरणशास्त्रे पण्डिताः ते वैयाकरणाः तथैव ये तर्कशास्त्रे निपुणाः ते तार्किकाः इति विख्याताः’ इति इदं सर्वे जानन्ति एव।
वैयाकरणाः, शब्दप्रयोगेषु तथा च वाक्येषु दोषान् कदापि न अनुमोदन्ते। परं तु दोषयुक्तोपि, तार्किकाः वाक्चातुर्येण सर्वेषां प्रश्नानाम् उत्तरं यच्छन्ति।
अत्र, वैयाकरण-तार्किकयोः मध्ये संवादः प्रचलति चेत् तत् कथं भवति इति एका कल्पना।
तार्किकाः – अस्माकूनां तार्किकेषां यतं शब्दरि ततम् अर्थरि ।
वैयाकरणाः – इदं वाक्यम् असमीचीनम् ।
तार्किकाः – इदं समीचीनमेव।
वैयाकरणाः – कथम् अस्माकूनाम् ?
तार्किकाः – यथा इक्ष्वाकूनाम् ।
वैयाकरणाः – कथं तार्किकेषाम् ?
तार्किकाः – यथा तेषाम् ।
वैयाकरणाः – कथं शब्दरि अर्थरि ?
तार्किकाः – यथा मातरि पितरि
वैयाकरणाः – कथं यतं ततम् ?
तार्किकाः – यथा यथा तथा तथा ।
The above post is a conversation between a grammarian and a Logician. And the essence of the post will be lost if I translate this into English.

3 comments:

karunakaran said...

it was good prg interesting conversation between them.Being a vaiiyakaraneeyaha i enjoyed

Visalakshi said...

वैय्याकरणः अथवा वैय्याकरणीयः?

KANNAN. G said...

hi karuna! अदर्शनम् लोपः अहं तु तव दर्शनम् (लेखनम्) इच्छामि.